SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ६४. परिवार नियोजनम् ( Family Planning ) उपक्रमः-वैदिक-साहित्यावलोकनेन विज्ञायते यत् सन्तति-बाहुल्यं दोषावहम् इति । ऋग्वेदेऽथर्ववेदे च प्रतिपाद्यते यत् बहुप्रजा निऋतिमा विवेश । ऋग्० १-१६४-३२, अथर्व०९-१०-१० बहुसन्ततियुक्तो मानवो नितरां दुर्गति दुःखतति चाश्नुते, इति वेदानाम् अभिमतम् । परिवार नियोजनस्य तात्पर्यमेतद् यत् परिवारस्याकारस्तथा सुनियोजितः सुनियन्त्रितश्च स्याद्, यथा पारिवारिका जनाः समाजे भारभूता न स्युः । परिवारनियोजनस्यावश्यकता-सामान्येन निखिले जगति विशेषतश्च भारते जनसंख्या प्रतिसंवत्सरम् आक्रामकरूपेण परिवर्धते । यथा भारते जनसंख्यावृद्धिः, न तथा खाद्यसामग्रीवृद्धिः। खाद्यसामग्र्यभावे जनसंपोषणं न संजायेत, दुभिक्षादीनां च जनिर्जायत । दुर्भिक्षे व्याप्ते सति जीवनं मरणपर्याय एव । अन्नाभावे शरीरापचयः, मनोबलक्षयः, स्वाभिमानावनतिः। विदेशानां समक्षं स्वोदरदर्शनं खाद्यसामग्रीयाचनं च तथा मानहानिम् आवहति, यथा तत् विषपानं स्यात् । परिवारनियोजन-प्रयोगाभावे सत्यां जनसंख्यावृद्धौ खाद्याभावेन सममेव जीवनस्तरस्यावनतिः, कार्यक्षमता-न्यूनत्वम्, रोग-शोकोपतापसन्ताप-विपत्पात - क्लेश-दैन्य-विवाद-कलह-अशान्ति-असन्तोष-मनोग्लानि-हीनत्वभावनादयो विवद्धिम् अश्नुवते । सन्तति-निरोधाभावे न पारिवारिकी शान्तिः। सन्तति-सुख-साधनार्थ मातापितरौ यादृशं क्लेशम् अनुभवतः, स न वर्णयितुं शक्यते । मातृणां तु बालसंरक्षणादिषु स्वास्थ्यमेवापक्षीयते । प्रतिदिनं प्रतिपलं चावश्यकताया वृद्धया, लाभस्य साधनानां चाभावेन, जीवनमेव नारकीयं संजायते । साधनानाम् अभावे बालानां समुचितपोषणाभावः, शिक्षाया अभावः, अन्नपानाद्यभावः, जीवनस्तरन्यूनत्वं च संजायते । बालानां दीनत्वं हीनत्व क्षीणत्वं च प्रेक्षं प्रेक्षं पित्रोरपि निष्प्रभत्वं श्रीहीनत्वं दुःखाब्धिमग्नत्वं च संजायते । परिवारनियोजनोपाया:-परिवार-नियोजनार्थं सर्वकारेण बह व्यो योजनाः प्रवर्तिताः। प्रतिक्षेत्र प्रतिनगरं प्रतिग्रामं बहुविधया रीत्या परिवारनियोजन-प्रचारो दृश्यते श्रूयते च । तत्र पुरुषाणां कृते निरोध-नलिकोपयोगो नसबन्धादिविधिश्च निर्दिश्यते । स्त्रीणां कृते लूपोपयोगः, शल्यक्रियया संततिनिरोध-प्रकाराश्रयणं च प्रस्तूयते । एषां प्रयोगाणां लाभहानिविषये विविधा विप्रतिपत्तिर्विवादो मतवैषम्यं च प्राप्यन्ते । एते प्रयोगाः क्वचिद् लाभप्रदाः, क्वचिच्च हानिकरा अवलोक्यन्ते । लूपादीनां प्रयोगस्तु प्रायशो रोगादिवृद्धया नैराश्य-संचारको विनाशकरश्च संलक्ष्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy