SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२० संस्कृतनिबन्धशतकम् - सहकारितायाः प्रचारेण शिक्षणात्मका लाभा अपि दृश्यन्ते । यथा समिति-कार्य-ज्ञानम, वाद-विवाद-विधिज्ञानम्, संगठनस्य व्यवस्थायाश्च क्रियात्मकं ज्ञानम्, साक्षरता-प्रचारेण हस्ताक्षरादिकरणे क्षमत्वम्, उत्तरदायित्वभावनाजागतिश्च । सहकारिमितयः क्रियात्मकरूपेण जनतान्त्रिकशासन-व्यवस्थायाः शिक्षा ददति । अतएव लोकेषु राजनीतिकी जागरूकता संलक्ष्यते। समाजोत्थानेऽपि सहकारिताया महत्त्वपूर्ण योगदानं लक्ष्यते । स्वच्छतास्वास्थ्य-चिकित्सा-मनोरञ्जनादिसाधनानां वृद्धया ग्रामीणानां सामूहिक-सुविधावाप्तिः । कूप-तडाग-नालिका-मार्गादीनां नवनिर्माणेन पुननिर्माणेन परिष्कारेण चैषा जनमानपं तोषयति पोषयति च ।। ___ सहकारिताया दोषा न्यूनताश्च-सहकारितान्दोलनस्य सुखावहत्वेऽपि केचन बद्धमूला दोषा लक्ष्यन्ते, येन कृतेऽपि प्रयत्ने वाञ्छिता लाभा नाप्यन्ते । तत्र केचन दोषाः प्राधान्येनोल्लेखम् अर्हन्ति । ते सन्ति-१. भारतीयजनताया अशिक्षितत्वम्, २. उच्चाधिकारिणां कार्यविधौ हस्तक्षेपः, ३. जनतायाः पूर्णसहयोगाभावः, ४. ऋणादिदाने वैधानिक-विघ्न-प्राचुर्यम्, ५. समिति-व्यवस्थासु जातिवाद-वर्गवाद-सम्प्रदायादिदोषप्रवेशः, ६. ऋणदाने उत्कोचग्रहणप्रवृत्तिः, ७. जनतायां नैतिकताया अभावाद् ऋण-प्रत्यर्पणे विलम्बनम्, सर्वथा अप्रत्यर्पणं च, ८. शासन-सहकारिताविभागस्य नियन्त्रणेन उत्कोच-चाटुकारिता-अनैतिकतादिदोषाणां वृद्धिः, ९. अधिकारिणां सदस्यानां च समिति-सर्वस्वापहरणप्रवृत्तिः, १०. स्वार्थपराणां परधन ग्रास-गृद्धानां समितिषु पूर्णाधिकारः । दोषैरेतैः सहकारितान्दोलनम् अभीष्टलाभप्रदानेऽक्षम परिलक्ष्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy