SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सहकारितान्दोलनम् स्वातन्त्र्योत्तरं विकासः - स्वातन्त्र्यलाभोत्तरकाले विशिष्टा प्रगतिर्लक्ष्यते सहकारितान्दोलने । भारतस्य पुनर्निर्माणम् अनुरुध्य का योजना हितावहा इति विचारे सहकारितान्दोलनमपि प्राधान्यं भेजे । तत्परिणामरूपेण सहकारिताभावना- प्रोत्साहनार्थं भारतशासनेन १९४८ तमे ईसवीये सहकारितायोजनासमितिः संस्थापिता । पञ्चवर्षीय योजनास्वपि सहकारिता प्राधान्यम् अलभत । २१९ भारते एतदान्दोलन-स्वरूपेण या: सहकारिसमितयः संस्थाश्च कार्यपराः सन्ति, ताः सन्तिः - १. ग्रामीण - सहकारि - समन्वय समितयः, २. ग्रामीण - सहकारीतर-समन्वय समितयः, ३. नगर समन्वय समितयः, ४. नगर-समन्वयेतर समितयः, ५. निरीक्षक यूनियनः ६. गारण्टी यूनियन, ७. केन्द्रीय सहकारि-बैंक:, ८. सहकारि-राज्य - बैंक, ९. भारतीय राज्य सहकारि-बैंकश्च । , सहकारि-समितीनाम् उपयोगिता - सहकारि समितीनां कार्यक्षेत्रम् अतीव व्यापकम् । आसां जालं भारतवर्षे प्रतिग्रामं सुनियन्त्रितरूपेण प्रसरति । एताः शरोर-स्थित-स्नायु-शृङ्खलावत् समग्रमपि राष्ट्रशरीरं व्याप्य राष्ट्र- शक्तेरुत्कर्षे संलग्नाः सन्ति । समितीनाम् एतासां प्रचारेण देशोऽतीव लाभान्वितोऽभूत् । सहकारितान्दोलनस्योपलब्धयः - सहकारिता - आन्दोलनस्योपलब्धिविचारे काश्चन मुख्या उपलब्धयोऽत्र निर्दिश्यन्ते — आत्मनिर्भरता, दीन-जन-शोषणसमापनम्, लाभांशस्य सहकर्मिषु समरूपेण विभाजनम्, पारस्परिक सहयोगभावोदयः, समाजवादि- ग्रामीण व्यवस्था संस्थापने सहयोगः, पञ्चवर्षीय योजनापूर्ती साहाय्यापादनम्, मध्यस्थनिवारणपूर्वकम् उत्पादनेऽपि योगदानम्, उपयोगि-वस्तु-वितरण-क्षेत्रेषु योग्यसदस्यानां साहाय्याचरणम्, सहयोग - सहानुभूति - मितव्ययितादिगुणानाम् अनुसरणेन सदस्यानां नैतिको विकास:, सुदृढ - पथ - ( पक्की सड़क ) - निर्माणम्, कूप - चिकित्सागृह-वाचनालय-पुस्तकालयादीनां संस्थापनम् । सहकारिता आर्थिक क्षेत्रे मध्यस्थनिराकरणेन लाभांशोपार्जने सदस्यानां साहाय्यम् आचरति । अल्प - कुसीदमूलक - ऋणदानेन धनाभाव - जन्य- काठिन्यापनोदने साहाय्यं तनुते । बुल्फ-महोदयेन स्फुटमेतद् उदीर्यते यत् सहकारितान्दोलनेन धनाभावग्रस्तक्षेत्रेषु धनं प्रापितम् ; निराशाः कृषकादयः सदाशासमन्विता विहिताः; उत्पीडिता उन्मूलिताश्च पुनः प्रत्यारोपिताः; कुसीदजीविभ्यश्च लोकाः परिरक्षिताः । सहकारिताया मूलमन्त्रो मितव्ययिता । मितव्ययिता - पाठ - पाठनेन सदस्यानां मदिरापान- द्यूत-दुर्गुणगणेभ्यो विनिवृत्तिः । एवं लोकानां नैतिकस्तरोन्नयनं विहितम् । सदस्येषु आत्मविश्वासस्य, संयमस्य, सहयोगस्य, स्पष्टवादितायाः, स्वाभिमानस्य चोदयोऽभूत् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy