SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ६३. सहकारितान्दोलनम् ( Co-operative Movement ) परिचयः-सहकारिताशब्देन एकोद्देश्यपूर्त्यर्थं समन्वितेन सहयोगभावनया कृतम् ऐच्छिकं संगठनम् अभीष्यते । तन्निमित्तम् आन्दोलनं च सहकारितान्दोलनम् इत्यभिधीयते । अत्र तत्त्वत्रयस्य प्राधान्येन समावेशोऽभीष्टः । ( क ) कस्यचिद् आर्थिकोद्देश्यस्य पूर्तिः, (ख) कार्यपराणाम् अधिकारदृष्ट्या कार्यदृष्ट्या च स्तरसाम्यम् एकरूपत्वं च, (ग) सहकारित्वम् ऐच्छिकं संगठनमूलकं च । अत एतस्य प्रेरणास्रोत आभ्यन्तरं न तु बाह्यम् ।। सहकारितान्दोलनस्योद्भवो विकासश्च–'संघे शक्तिः कलौ युगे' इत्युल्लिखतो विपश्चितोऽभिमतं सहयोगमूलकं कर्मैव । एतद् वचनं न केवलम् आर्थिकविकासार्थमेव, अपितु जीवनस्य सर्वेषु क्षेत्रेषु सामाजिकेषु राजनीतिकेषु विश्वसंबद्धेषु च सर्वत्रैवानुमोदितुं व्यवहाँ च शक्यते । समन्वयभावनाम् अन्तरेण, सहयोगभावाद् ऋते च संघर्षबहुले जगति न संभवा साध्यसिद्धिः । एतस्यान्दोलनस्य आर्थिकक्षेने सहकारितान्दोलनरूपेणोद्भवः १९ तमशताब्द्यां जर्मनी-डेनमार्क-देशयोरभूत् । शर्मण्यदेशे शुल्ज़-डेलिज़-नामा, डेनमार्कदेशे च रेफिसन-नामा दीन-शोषित-पतितानां श्रमिणां कृषकाणां च स्थिति-सुधारव्रतम आस्थाय सहकारितान्दोलनं प्रारब्धवन्तौ। शुल्जः शर्मण्यदेशनगरेषु रेफिसनश्च डेनमार्क-ग्रामीण-क्षेत्रेषु सहकारिसमितीः संस्थापितवन्तौ । भारते ग्रामसहकारिसमिति-संस्थापनं रेफिसन-सिद्धान्तम् अनुसृत्य, नगर-सहकारिसमिति-संस्थापनं च शुल्ज-सिद्धान्तम्लकम् । __ भारते सहकारितान्दोलनस्योद्भवः १९०४ ईसवीयेऽभूत् । तदानीं वैदेशिकशासनत्वाद् एतस्योद्देश्यं न तथा आर्थिकोत्थानम् आसीत्, यथा आथिकोन्नति-व्यपदेशेन जन-शोषणम् । तदा सहकारि-समितीनाम् उद्देश्यम् आसीद्-अल्पकुसीद-पूर्वकं कृषकेभ्य ऋणदानम् । १९०६ ईसवीये सहकारिसमितीनां संख्या ८४३, १९११ ईसवीये च तासां संख्या ८१७७ आसीत् । आसां समितीनां निधिश्च कोटित्रयाधिकम् अभूत् । १९१२ ईसवीये सहकारिताविधानं निर्मितम् । तदनुसारं केन्द्रीय-सहकारि बैंकस्य संस्थापनम् अभूत् । सहकारिसमितीनां कृते क्रयविक्रयौ, जीवन-बीमा-कार्यम्, भवननिर्माणम्, उत्पादनव्यवस्था, उद्योगाश्च वैधरूपेणोद्घोषितानि । १९१५ ईसवीये प्रान्तीयसहकारि-बैंकानां स्थापनाऽभूत् । एवं विविधकार्य-व्यवस्थापनार्थम् अर्थप्राप्तौ सहकारि-समितीनां कृते सौविध्यमभूत् । १९१९ ईसवीये मैकलागनसमितिविवरणम् आश्रित्य सहकारिता प्रान्तीयशासनान्तर्गतम् अभूत् । १९४५ ईसवीये सहकारि-समितीनां संख्या पादोनद्विलक्ष-परिमिताऽभूत् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy