SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कुटीरोद्योगः २१७ जनाः कृषिकर्मनिरताः। संवत्सरे प्रायशः षड्मासं यावत् कृषिकर्माभावात् समयापव्यय एव दरीदृश्यते । यदि समयं बहमूल्यम् अवगच्छन्तो ग्राम्या जना लघुद्योगेषु कुटीरोद्योगेषु च रिक्तं समयं विनियोजयेरन्, तर्हि आर्थिकस्थितिसमुद्धारसमकालमेव तेषां पारिवारिकी सामाजिकी राष्ट्रिया च स्थितिः समुद्धरेत् । कुटोरोद्योगस्य जीवनोपयोगित्वम्--कुटीरोद्योगा लघुद्योगाश्च स्वीयावश्यकतापूत्यैव समं समाजस्य राष्ट्रस्य चार्थिकस्थितिसमुन्नयने क्षमाः । तत्र केचन तथाविधा अपि लघुद्योगाः सन्ति, ये स्वल्पव्यवसाध्याः, विद्युदभावेऽपि च प्रक्रमन्ते । लघुद्योगेषु विशेषत उल्लेख्या उद्योगाः सन्तिः-वस्त्र-दरीगलीचा-रज्जु-खद्दर-कम्बल-मोजा-स्वेटर-शाल-प्रभृतीनां निर्माणम्, सुवर्ण-रजतताम्र-पित्तल-प्रभृतिधातूनां पात्राणां कलात्मककृतीनां च निर्माणम् । एवमेव तैलोद्योगः, चर्मोद्योगः, फेनिल ( Soap )-उद्योगो दुग्धशालोद्योगश्च आर्थिकदृष्ट्याऽतीव लाभप्रदाः। मैसूर-मद्रास-बंगाल-असम-कश्मीर-प्रभृतिप्रदेशेषु अपरिष्कृतरेशमोद्योगोऽतीव प्रथते । बंगादिषु च जूट-वस्तु-निर्माणं प्रतिवर्ष प्रवर्धत एव । कुटीरोद्योगेन लघुद्योगेन च निधनानां हीनानां दीनानां च वृत्तिसमस्या निराक्रियते । तेषाम् आर्थिकी स्थितिरुन्नीयते । तेषां भौतिकसौविध्याभावः सुतरां पूर्यते। अपह्रियते च तेषाम् अर्थाभावजन्यं दैन्यम्, संह्रियते च तेषां स्वोदरपूर्तिचिन्ता, निरस्यते चान्नवस्त्राद्यभावजा हीनत्वभावनारूपिणी पिशाचिनी। समष्टेय॑ष्टेर्राष्ट्रस्य चोत्थाने उद्योगानामेषां गौरवपूर्ण स्थानम् । सुविदितमेवैतत् समेषामपि सुधियां यद् जापानदेशो लघुद्योगबलेनैव जगति स्वीयं गरिमाणम् अभ्युन्नतत्वं च प्रथयति । कुटीरोद्योगोऽयं दैन्यनाशकः, पतितोद्धारकः, दुर्गतिदमकः, समुन्नतिसाधकः, वृत्तिसमस्यानिवारकः, आर्थिकस्तरोन्नायकः, श्रममहत्त्वप्रतिपादकः, सर्वलोकहितसाधकः, क्षुत्-पिपासा - वस्त्राभाव - अन्नाभाव - धनाभावादि-दोषरोधकश्च । एवं कुटीरोद्योगो जनस्य राष्ट्रस्य च श्रेयसेऽभिवृद्धये च प्रथते। .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy