SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ६२. कुटीरोद्योगः ( Cottage Industry ) कुटीरोद्योगस्य प्रारम्भः-यद्यपि प्राचीनकालादेव कुटीरोद्योगानाम् उल्लेख उपलभ्यते । पुरा तेषां व्यवस्थितरूपेण नियन्त्रणं संचालनं प्रवर्तनं चासीन्नवेति वक्तुं दुष्करम् । ऋग्वेदे तक्षा, हिरण्यकारः, चर्मकारः, वासोवायः, इत्यादीनामुल्लेखो लभ्यते । यजुर्वेदे ( अ० ३०.५-२२ ) बहवः कुटीरोद्योगाः सनामोल्लेखं प्राप्यन्ते तत्र केचन कुटीरोद्योगाः प्राधान्येन निर्दिश्यन्ते । यथा-रथकारः तक्षा, मणिकारः, इषुकारः, धनुष्कारः, ज्याकारः, रज्जुसर्जः, हिरण्यकारः, कुलाल:, अयस्तापः, कर्मारः, सुराकारः, इत्यादयः । कुटीरोद्योगेषु संलग्नानां नारीणामपि वर्णनम् आप्यते । यथा-रजयित्री, पेशस्कारी, विदलकारी, कोशकारी, अञ्जनीकारी, वासःपल्पूली, स्मरकारी-प्रभृतयः । १९ तम-शताब्दी यावद् भारतवर्ष स्वोद्योगार्थ जगति ख्याति लेभे । भारतीयं वस्तु शोभनं सुदृढमिति दूरदेशं यावत् प्रसिद्धिमवाप । ऐतिह्यमेतत् प्रमाणयति यद् रोमदेशं यावत् भारतीयवस्त्राणां ख्यातिरासोत् । ऊर्णावस्त्राणि, क्षौमवस्त्राणि, कश्मीरदेशीयानि वस्तूनि शाल-दुशाला-कम्बल-भृतोनि अद्यावधि लोके ख्यातिमुपयान्ति । ढाका-नगरस्य मलमल-वस्त्रं विदेशेष्वपि प्रसिद्धि लेभे। हस्ति-दन्त-कर्माणि, काष्ठकृतयः, लौहवस्तूनि च भारतस्य गौरवम् अद्यावधि प्रथयन्ति । भारतीयवस्तूनि अरब-फारस-सीरिया-प्रभृतिदेशेषु ख्याति ययुः। एतच्च १९१९ ईसवीये प्रकाशितेन औद्योगिकायोग-विवरणेन प्रमाणीक्रियते। ___ कुटीरोद्योगस्य महत्त्वम्-भारतस्य स्वातन्त्र्यलाभे क्रान्तदर्शिना महात्मना गान्धिना कुटीरोद्योगस्य महत्त्वं बहुधा प्रतिपादितम् । यान्त्रिकसभ्यता विनाशावहेति विचारं विचारं स तद्विरोधरूपेण कुटीरोद्योगं प्रावर्तयत् । तस्याभिमतं यत् कूटीरोद्योगानां लघद्योगानां च माध्यमेन भारते आर्थिकी समानता संभाव्यते । नगरस्थेषु विद्युत्संचालितेषु फैक्टरो-मिल-प्रभृतिषु अशिक्षितानां सामान्यानां ग्राम्यजनानां प्रवेशो न संभाव्यते । अतस्तेषां हितसम्पादनार्थम्, तेषाम् आर्थिकी दुःसाध्या समस्यां समाधातुं च कुटीरोद्योगं वरदानरूपेण प्रत्यष्ठापयत् । एतेन तस्याभिमतं यद् अवकाशकाले ग्रामीणा नागरिका वा लोकाः स्वल्पव्ययसाध्येनोद्योगेनातिरिक्तधनोपार्जने क्षमाः स्युः । एवंविधया रीत्या समयस्य सदुपयोगेन सहैवातिरिक्तवित्तलाभोऽपि स्यात् । पारिवारिका जना बाला वृद्धाः स्त्रियश्च औद्योगिकर्मणि साहाय्यप्रदानेन स्वसमयं सफलयन्तु, अतिरिक्तं धनम् अर्जयेयुः, स्वीयाम् आर्थिकी समस्यां च निराकुर्युः। एतदत्रावधेयं यत् कृषिप्रधानोऽयं भारतो देशः। अस्य नवतिप्रतिशतं
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy