________________
२१५
महात्मा गान्धिः
मोहनो मोहनोऽयं महात्मा । अहिंसा - मूलकं सत्याग्रहम्, असहयोगान्दोलनम्, सविनयावज्ञान्दोलनम्, उपवासाश्रयणम्, हड़ताल नामक कार्यावरोधं समाश्रयत् । जन-साहाय्यैकमूलकेन आन्दोलनेन भीतभीता वैदेशिका भारतशासनाभिलाषम् उन्मुच्य स्वाश्रयं ययुः । भारतस्वातन्त्र्यस्य गान्धिरेव मूलमन्त्रः । तत्प्रयत्नजन्यं भारतस्वातन्त्र्यम् । अतएव स 'राष्ट्रपिता' इत्येवंरूपेण संमान्यते ।
अन्यद् वैशिष्ट्यम्- - न केवलं राष्ट्रसेवा, समाजसेवा च तस्य गौरवम् अभिवर्धयतः, अपितु भारतीय-कला-कौशल विकासे, धार्मिक विभेद-शमने, हिन्दु-यवनैकता - सम्पादने, राजनीती धर्मार्थयोः समन्वय सम्पादने, भारतीयेषु स्वावलम्बनोद्बोधने, विदेशीय-वस्तु- बहिष्कारे, स्वदेशीय-वस्तु संग्रहणे, शिक्षापद्धतौ परिष्कारे, नैतिके चारित्रिके चोत्थापने, देशभक्ति - भावना - प्रबोधने, राष्ट्रियैकता- संपादने चानुपमं महत्त्वपूर्ण योगदानम् अवलोक्यते ।
एवं महापुरुषोऽयं स्वगुणैरेव विश्व-जन-संमानम् अवाप्य आबालवृद्धं स्तूयते प्रशस्यते च । तद्गुण- हृत - हृदया भारतीयाः स्वीयां श्रद्धाञ्जलि समर्पयन्तः तच्चरणारविन्द - कृपां सततं कामयन्ते । ते तज्जोवनादर्श च स्वादर्श - रूपेण समुपस्थाप्य स्वजीवनं सफलयितुम् अभिलष्यन्ति ।