SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ . ३७. बाणोच्छिष्टं जगत्सर्वम् ( क. हृदयवसतिः पञ्चबाणस्तु बाणः; ख. वाणी बाणो बभूव ह; ग. बाणः कवीनामिह चक्रवर्ती, घ. बाणस्तु पञ्चाननः; ङ. कादम्बरीरसज्ञानामाहारोऽपि न रोचते।) - बाणस्य जीवनवृत्तम्-महाकवेर्बाणस्य जनिकालविषये वंशादिविषये च न काचन विप्रतिपत्तिः । हर्षचरितस्यादौ तेन वंशादिविवरणं महता विस्तरेण उपस्थाप्यते । जनकोऽस्य चित्रभानुर्जननी राजदेवी च । सम्राजो हर्षस्य समकालीनत्वात् जनिकालोऽस्य ईसवीयसप्तमशताब्द्या: पूर्वार्धोऽङ्गीक्रियते । हर्षचरितं कादम्बरी चेति ग्रन्थद्वयम् अस्य प्रधानतः कृतित्वेनाङ्गीक्रियते । कृतयोऽन्या विवादविषया एव विदुषाम् ।। बाणस्य कवित्वप्रशस्तिः-निखिलेऽपि संस्कृतवाङमये कविकुलगुरुः कालिदासो यथा रचनाचातुर्येण कल्पनावैचित्र्येण च पद्यबन्धे गरिष्ठो वरिष्ठश्च, तथैव गद्यकाव्यनिबन्धने कविवरो बाणोऽतिशेतेऽन्यान् सर्वानप्यभिरूपान् । पद्यरचनायां केषुचिदेव पद्येषु उक्तिवैचित्र्येण भावगाम्भीर्येण कृतिकौशलेन वाऽपूर्वा छटा संजायतेऽखिलेऽपि काव्ये । परं नैतावतैव संभाव्यते गद्यकाव्येऽपि तादृश्यनुपमा कान्तिः । गद्यकाव्ये तु भूयान् श्रमोऽपेक्ष्यते । पदे पदे वाग्वैचित्र्यमर्थगाम्भीर्यं भाववैभवं कल्पनाकाम्यत्वं च दुर्निवारम् । अत: साधूच्यते'गद्यं कवीनां निकषं वदन्ति ।' गद्यकाव्यबन्धे दण्डी सुबन्धुश्चेति द्वावेतौ बाणेन समं सनामग्राहमुल्लेख्यौ। परं बाणो गरिष्ठो वरिष्ठश्च त्रयाणाम् एतेषां भूयिष्ठया मनोभावाभिव्यक्त्या, साधिष्ठया शैल्या, म्रदिष्ठया मनोहरतया, श्रेष्ठया साधुतया, प्रेष्ठया पदपरिष्कृत्या च । __ अतः सोड्ढलेन "बाणः कवोनामिह चक्रवर्ती" इत्युक्तम् । धर्मदासेन. तरुणीलावण्यमस्य कृतौ दृश्यते । यथा 'रुचिर-स्वरवर्ण-पदा रसभाववती जगन्मनो हरति । सा कि तरुणी ? नहि नहि वाणी बाणस्य मधुरशीलस्य' ॥ गङ्गादेव्या सरस्वतीवीणाध्वनिरेव कृतिष्वस्य निशम्यते । “वीणापाणिपरामष्ट-वीणानिक्वाणहारिणीम् । भावयन्ति कथं वाऽन्ये भट्टबाणस्य भारतीम"। जयदेवो बाणं पञ्चबाणेन कामेनोपमिमीते । “हृदयवसतिः पञ्चबाणस्तु बाणः” । श्रीचन्द्रदेवोऽमुं कविकुञ्जरगण्डभेदकं सिंहं गणयति । "आः सर्वत्रगभीरधीरकविताविन्ध्याटवीचातुरी-संचारी कविकुम्भकुम्भिभिदुरो बाणस्तु पञ्चाननः" । बाणोच्छिष्टं जगत्सर्वम्-बाणस्य वस्तुविवृतौ वर्णने चापूर्वं वैशारा वीक्ष्य मन्त्रमुग्धत्वमनुभवन्ति मनीषिणः । वर्ण्यस्य वस्तुनोऽणुतमामपि विवृतिं न
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy