________________
गद्यं कवीनां निकष वदन्ति
१३१ कथा एकादशविधा-हेमचन्द्राचार्येण काव्यानुशासनस्याष्टमेऽध्याये सप्तमाष्टमसूत्रयोविवरणे कथाया एकादश भेदा वर्ण्यन्ते-(१) उपाख्यानम्-- कथान्तर्गतोपकथा, (२) आख्यानकम् -परप्रबोधार्थ ग्रन्थिकेन पठितं गीतमभिनीतं वा, (३) निदर्शनम्-पशु-पक्षि-जीवादि-सबद्धम्, (४) प्रवलिकाप्रधानकथाश्रितविवादादिवर्णनं प्राकृते । ( ५ ) मन्थल्लिका-माहाराष्ट्रादिप्राकृताश्रया क्षद्रकथा। (६) मणिकूल्या-अन्ते तत्त्वार्थप्रकाशिका कथा । (७) परिकथा-चतुर्वर्गाश्रिताऽद्भुतकथामूला। (८) खण्डकथा-कथाऽन्तर्गतोपकथा। (९) सकलकथा-सर्वाङ्गपूर्णा कथा । (१०) उपकथा-कथाङ्गाश्रिता प्रसिद्धोपकथा । ( ११) बृहत्कथा-अद्भुतकार्यसिद्धिमूला पैशाचीभाषाश्रया विस्तृता कथा।
उपन्यासो नवविधः-प्रणयमूला कथोपन्यासशब्देन व्यवह्रियते । अम्बिकादत्तव्यासेन गद्यकाव्यमीमांसायाम् उपन्यासो नवधा विभज्यते-कथा, कथानिका,. कथनम्, आलापः, आख्यानम्, आख्यायिका, खण्डकथा, परिकथा, संकीर्णं चेति । लक्षणानि प्रायशो हेमचन्द्रकृत-कथाभेदलक्षणवद् अवगन्तव्यानि। .... कथा कथानिका चैव कथनालापको तथा।
आख्यानाख्यायिके खण्डकथा परिकथाऽपि च ॥ १-२५ संकीर्णमिति विज्ञेया उपन्यासभिदा नव ॥ गद्यकाव्यमीमांसा १-२६.
ओजःसमासभयस्त्वम-आचार्यदण्डिना काव्यादर्श 'ओजःसमासभूयस्त्वम एतद् गद्यस्य जीवितम्' (का० १-८०) इत्यदीर्यते । स गद्य ओजोगुणप्राधान्यं समासबाहुल्यं च तज्जीवितरूपेणाङ्गीकरोति । तस्याभिप्रायोऽयं यद् गद्ये ओजोगुणेनैव स्फूर्तिः शक्तिमत्ता हृद्यत्वं चापद्यते । तत्र समासभूयस्त्वेन चमत्कृतिः कान्तिमत्त्वम् औदार्यं च । यदि गद्ये दृढबन्धः, समासबाहुल्यम्, ओजःप्राधान्यम्, विविधालंकृति-पुष्टत्वं च न स्यात् तर्हि गद्यकाव्यं जीर्ण-भवनमिव विशीर्येत । ओजोगुणस्तस्य सौन्दर्य पुष्णाति, समासभूयस्त्वं च दृढस्तम्भवत् काव्यप्रासादसंरक्षकं बलाधायकं च । समासरहितं गद्यकाव्यं निर्बलं सद् बलीयसा आलोचनामास्तेन प्रपीडितं ध्वंसेत । सुमधुरगद्यबन्धे दण्डी सुबन्धुर्बाणभट्टश्चेति गद्यकवित्रयी प्रथिततमा। समुद्रगुप्तस्य हरिषेण-कृतायां प्रयाग-प्रशस्तौ, रुद्रदाम्नो गिरिनारप्रशस्तौ च ओजःसमासभूयस्त्व-विशिष्टस्य गद्यस्य माधुर्यं संलक्ष्यते।
एवं सिध्यति यद् अस्खलितपदरचनया अलंकारादिमाधुर्येण समासादितवैशिष्टयेन च गद्यकाव्यं प्रथते ।