SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३० संस्कृतनिबन्धशतकम् गद्य चतुर्विधम्-साहित्यदर्पणे गद्यं चतुर्धा विभज्यते-(१) मुक्तकम्समासरहितम्, ( २ ) वृत्तगन्धि-पद्यांशसमवेतम्, (३ ) उत्कलिकाप्रायम्दीर्घसमासबहलम्, ( ४ ) चूर्णकम्-स्वल्पसमास-समन्वितम् । तथा चोच्यते वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ॥ ६-३३० भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् । आद्य समासरहितं वृत्तभागयुतं परम् ॥ ६-३३१ अन्यद् दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ॥ सा० द० ६-३३२ गद्य द्विविधम्-गद्यं कथा-आख्यायिका-भेदेन द्विधा विभज्यते । अग्निपुराणे, रुद्रटस्य काव्यालंकारे, दण्डिनः काव्यादर्श, विश्वनाथस्य साहित्यदर्पणे, अमरकोशे च भेदद्वयम् एतद् विविच्यते । तदनुसारं कथाया वैशिष्ट्यं वर्तते(१) कथा-कविकल्पिता, कथाया वक्ता नायकः स्वयम् अन्यो वा कश्चन, उच्छ्वासादिविभाजनाभावः, वक्त्रापवक्त्रादिपद्याभाव, भाषा संस्कृतं प्राकृतादिकं वा, स्वचरितवर्णनाद्यभावः । (२) आख्यायिका-ऐतिहासिक-कथासंबद्धा, नायकोऽत्र वक्ता, उच्छ्वासादिषु विभक्ता, वक्त्रापरवक्त्रपद्यसंयुक्ता, संस्कृतनिष्ठा, स्वल्पपद्यान्विता, स्वचरित-परकविचरित्रादिसंयुक्ता च । तत्र 'कादम्बरी' कथाया निदर्शनं 'हर्षचरितम्' चाख्यायिकायाः। भेदद्वयम् अवास्तविकमिति निराक्रियते दण्डिप्रभृतिभिः ।। तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयांकिता। अत्रैवान्तर्भविष्यन्ति शेषा आख्यानजातयः॥ काव्यादर्श १-२८ गद्यं पञ्चविधम्-अग्निपुराणे गद्यकाव्यं पञ्चधा विभज्यते । समासतस्तद् निरूप्यते (१) कथा-कविवंशवर्णनम्, मुख्यकथासंबद्धाश्चान्ये कथानकाः, परिच्छेदाभावः लम्बकोपयोगश्च । (२) खण्डकथा-कथामध्ये चतुष्पदीश्लोकानां प्रयोगः, विप्रलम्भशृङ्गारस्य करुणरसस्य च मुख्यत्वेन वर्णनम् ।। (३) परिकथा-खण्डकथावत्, कथाख्यायिकाभेदयोरत्र समिश्रणम् । ( ४ ) आख्यायिका-गद्य कविवंशवर्णनम्, कन्याहरण-संग्राम-वियोगादिवर्णनम्, स्वभाव-प्रवृत्त्यादीनां प्रकाशनम्, उच्छ्वासे विभाजनम्, अल्पसमासयुक्तं गद्यम् , क्वचित् पद्यप्रयोगश्च । (५) कथानिका-आदौ भयानकरसः, मध्ये करुणरसः, अन्तेऽद्भुतरसश्च । नोदात्तप्रकृतिः, अपि तु संकीर्णप्रकृतिः । १. कथाख्यायिकयोस्तात्त्विकभेदार्थ द्रष्टव्यम्--ग्रन्थकृता प्रणीतः 'सं० सा० समीक्षा त्मक इतिहासः' पृष्ठ ४६१-४६४ ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy