SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ३६. गद्य कवीनां निकषं वदन्ति ( ओजःसमासभूयस्त्वमेतद् गद्यस्य जीवितम् ) गद्यस्य स्वरूपम-काव्यस्य भेदद्वयं स्वीकुर्वता विश्वनाथेन निगद्यते'दृश्य श्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम्' (सा० द० ६-१) । तत्र च श्रव्यकाव्यं पद्य-गद्य-भेदेन द्विधा विभज्यते । 'श्रव्यं श्रोतव्यमानं तत्पद्यगद्यमयं द्विधा' (सा० द० ६-३१३ ), गद्यकाव्यलक्षणं तेनोच्यते-वृत्तबन्धोज्झितं गद्यम्' ( सा० द० ६-३३०)। अग्निपुराणे गद्यलक्षणं निर्दिश्यते-'अपादः पदसन्तानो गद्यं तदपि कथ्यते ।' काव्यादर्शे दण्डी काव्यं त्रेधा विभजते-'गद्यं पद्यं च मिश्रं च तत् विधैव व्यवस्थितम्' ( काव्यादर्श १-११)। गद्यलक्षणं च तेनाभिधीयतेअपाद: पदसन्तानो गद्यम्, ( काव्यादर्श १-२३ )। पाद-विभाजन-रहितः पदसमुच्चयो गद्यमिति । पूर्वमीमांसायां शेषे यजुःशब्द:' ( पूर्व० २-१-३७ ) इति गद्यबन्धे 'यजुः' शब्दः प्रयुक्तः । यजुः शब्दश्च परिभाष्यते 'अनियताक्षरावसानो यजुः' 'गद्यात्मको यजुः' इति च ।। गद्यकाव्येऽपि काव्यलक्षणं सर्वथा प्रस्फुरतीति गद्यबन्धोऽपि काव्यम् उच्यते । 'शब्दार्थों सहितौ काव्यम्' ( भामह १ - १६ ), तददोषौ शब्दार्थों सगुणावनलंकृती पुन: क्वापि ( काव्यप्रकाश १-४), रमणीयार्थप्रतिपादकः शब्दः काव्यम् ( रसगंगाधर ), वाक्यं रसात्मकं काव्यम् ( सा० द०१-३), इत्यादिषु लक्षणेषु रसात्मकत्वं, सगुणत्वम्, रमणीयार्थ-प्रतिपादकत्वं च काव्येऽपेक्ष्यन्ते । एते गणा यथैव पद्यात्मके काव्ये प्राप्यन्ते, तथैव गद्यकाव्येऽपि । रसा भावा गुणा अलंकारादयो यथा पद्यकाव्ये उपलभ्यन्ते, तथैव गद्यकाव्येऽपि । एवमुभयोः साम्यं लक्ष्यते । गद्य कवीनां निकष वदन्ति–सुभाषितेनानेन ज्ञायते यत् पद्यकाव्यापेक्षया गद्यकाव्यविरचनं दुष्करतरम् । पद्यकाव्ये तु कानिचिद् रसभावध्वनिगणालंकारादि-समवेतानि पद्यानि तस्य सौन्दर्य माधुर्यं च समेधयन्ति । काव्ये कल्पनायाः, अनुभूतेः, भणितिभङ्ग्याः , छन्दसां संगीतात्मकतायाश्च समन्वयेन चमत्कृतिः संजायते । परं गद्ये नैतत् संभाव्यते । तत्र प्रतिपदं प्रतिवाक्यं माधुर्य प्रसाद ओजो वाऽपेक्ष्यते । अलंकाराणां संमिश्रणम्, ध्वनेर्वक्रोक्तेर्वा साधूपयोगः, कल्पनायाः समुत्कर्षः, अनुभूतेर्गाम्भीर्यं वा गद्ये प्रतिपदमनिवार्यम् । न स्याच्चेत् चमत्कृति-वैशिष्ट्यं तर्हि गद्यं नीरसभोजनमिव हेयमनुपादेयं च स्यात् । भाववैशिष्ट्यं, कल्पनावैचित्र्यं, प्रौढा प्राञ्जला शैली, सरसं वस्तु, वक्रोक्तिप्रधाना भणितिः, शब्दसौष्ठवम्, भावसौन्दर्यम्, अभिव्यक्तेः रम्यत्वं च गद्यकाव्ये सहृदयाह्लाद-कारित्वं लोकोपसेव्यत्वं च गुणं प्रथयति । एतद् ध्यायं ध्यायं कविभिरिदमुदीर्यते यद्-गद्यं कवीनां निकषं वदन्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy