SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ बाणोच्छिष्टं जगत्सर्वम् १३३ विजहाति, न किञ्चिदुज्झति परस्मै यत्तेन शक्यं वर्णयितुम् । वर्णनानां व्यापित्वात्, सर्वाङ्गीणत्वात्, सूक्ष्मतमविवरणसमन्वितत्वाच्च 'बाणोच्छिष्टं जगत्सर्वम्” इति भूयो भूयो व्यादिश्यते । एतदेवात्र समासतः समुस्थाप्यते । ___ हर्ष-चरिते कवेवर्णन-चातुरी बहुशोऽवलोक्यते । तेषु मुख्यत उल्लेख्याः प्रसङ्गाः सन्ति-मुमूर्षोर्नृपस्य प्रभाकरवर्धनस्य वर्णनम्, वैधव्य-दुःखपरिहाराय सतीत्वमाश्रयन्त्या यशोवत्या वर्णनम्, सिंहनादस्योपदेशः, दिवाकरमित्रस्य राज्यश्री- सान्त्वनम् । कवेर्गरिमा कमनीयां कादम्बरीमेवाश्रित्याऽवतिष्ठते इत्यत्र नास्ति विप्रतिपत्तिर्विदुषाम् । यत्र तत्र साङ्गोपाङ्गं वर्णनं महता श्रमेण बाणेनोपस्थाप्यते, तेऽत्र प्रसङ्गा नामग्राहं दिङ्मात्रं प्रस्तूयन्ते । तद्यथाशूद्रकवर्णनम्, चाण्डालकन्यावर्णनम्, विन्ध्याटवीवर्णनम्, पम्पासरोवर्णनम्, प्रभातवर्णनम्, शबरसेनापतिवर्णनम्, हारीतवर्णनम्, जाबाल्याश्रमवर्णनम्, जाबालिवर्णनम्, सन्ध्यावर्णनम्, उज्जयिनीवर्णनम्, तारापीडवर्णनम्, इन्द्रायुधवर्णनम्, राजभवनवर्णनम्, अच्छोदसरोवरवर्णनम्, सिद्धायतनवर्णनम्, महाश्वेतावर्णनम्, कादम्बरीवर्णनं च । वाणी बाणो बभूव ह--श्रीगोवर्धनाचार्यस्य सूक्तिरियं सुधियां मोदमावहति यद् वाग्देवी सरस्वत्येव प्रागल्भ्यमधिकम् अवाप्तुं बाणरूपेण जनि लेभे । उक्तं च जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमवाप्तुं वाणी बाणो बभूव ह ॥ बाणस्य कृतिद्वयं समीक्ष्यते चेत् तर्हि वाग्देव्या अवतारस्येव बाणस्य कलाकौशलं भाषामाधुर्यं रसप्रवाहश्च प्राप्यते । वर्णनेषु प्रवाहो मनोज्ञत्वं च न क्वचिदपि न्यूनत्वमुपैति । तद्यथा-विलासवत्याः पुत्रहीनताजन्यविषादस्य वर्णनम्, चन्द्रापीडं प्रेक्ष्य विलासिनीनां विलासवर्णनम्, पुण्डरीकमवलोक्य महाश्वेतायाः प्रेमोद्रेकवर्णनम्, चन्द्रापीडं निरीक्ष्य कादम्बर्या मनोभाववर्णनम्, पुण्डरीकनिधने महाश्वेतायाः कपिञ्जलस्य च विलापवर्णनं बाणस्य सूक्ष्मेक्षणं सहृदयत्वं सहानुभूतिप्रवणत्वं च परिचाययति । शुकनासोपदेशे कवेः प्रतिभायाश्चरमोत्कर्षो लक्ष्यते । तत्र कवेर्लेखनी 'भावोद्रे के प्रवहमानेव प्रतीयते । शुकनासोपदेशे साक्षात् प्रतीयते यत्-'वाणी बाणो बभूव ह'। बाणः कवीनामिह चक्रवर्ती-बाणस्य कृतिद्वये प्रतिपदं प्रौढकवित्वदर्शनात् सोड्ढलेन 'बाणः कवीनामिह चक्रवर्ती' इति समर्थ्यते । बाणस्य वर्णनेषु भाव-भाषयोः सामञ्जस्यम्, भावानुकूलभाषाप्रयोगः, अलंकाराणां सुसंयतो विनियोगः, भाषायाम् आरोहावरोही, दीर्घतरसमस्तपदावलीप्रयोगसमनन्तरमेव लघुपदावलीप्रयोगो विशेषतोऽवलोक्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy