SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ संस्कृतनिबन्धशतकम् सर्वत्रैव वर्णने प्राग् विषयस्य साङ्गोपाङ्गनिरूपणम्, ततश्च समासबहुलं वर्णनम्, ततश्च श्लेषमूला उत्प्रेक्षा उपमाश्च, ततश्च विरोधाभासेन परिसंख्यालंकारेण वा समापनम् । श्लेषमूलासु उपमासु, विरोधाभासे, परिसंख्यायां च पाण्डित्यप्रदर्शनेन क्लिष्टत्वं दुर्बोधत्वं च परिलक्ष्यते । क्वचिद् वर्णनेषु तथाविधो विस्तारो यथा कृतेऽपि प्रयासे क्रियापदप्राप्तिः सूदुर्लभा । महाश्वेतादर्शने प्रयुक्तं वाक्यं ६७ पंक्ति-विस्तृतम् । कादम्बरीदर्शने प्रयुक्तं वाक्यं तु विस्तृतं सत् ७२ पंक्तिविशालताम् अभजत् । विशेषणानां विशेषणानि, तदनु तेषामपि विशेषणानि गहनत्वम् आमादयन्ति, यत्र क्रियापदं विलुप्तमिव प्रतिभाति । कथाप्रवाहश्च निरुद्ध इव प्रतीयते । वर्णनान्येतानि सहृदयहृदयावर्जकानि, परं कथाप्रवाहनिरोधः कथात्वं व्याहन्ति । बाणस्तु पञ्चाननः--श्रीचन्द्रदेवो बाणस्तुतिम् आचक्षाणो बाणस्य विन्ध्याटवीरूप-संस्कृतवाङ्मये निर्भीकत्वेन, प्रतिद्वन्द्विकविदर्पदलनेन, सर्वविषयावगाहिज्ञानसंपन्नत्वेन रस-भाव-भाषालंकारप्रयोगवैदग्ध्येन, अर्थगौरवान्वितत्वेन, ध्वन्यात्मकत्वेन च तस्य पञ्चाननत्वं सिंहत्वं वा प्रतिपादयति श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरेडलंकारे कतिचित्सदर्थविषये चान्ये कथा-वर्णने । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी संचारी कवि-कुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः॥ श्रीचन्द्रदेवो विन्ध्याटवीवर्णनमाश्रित्यैव तस्य पञ्चाननत्वं व्याहरति ।। वस्तुतः समग्रमपि तस्य वर्णनं भावगहनं गहनमिव हृदयम् अवगाहते । यथा विन्ध्याटवीवर्णने समासभूयस्त्वस्य ओजोगुणस्य विरोधाभासस्य च संमिश्रणम् उन्मदमातङ्गकपोलस्थलगलितमदसलिलसिक्तेनेव निरन्तरमेलालता-वनेन मदगन्धिनान्धकारिता, प्रेताधिपनगरीव सदासंनिहितमृत्युभोषणा महिषाधिष्ठिता च,...."करसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम। ऋषेर्जाबालेवर्णने कलायाः कल्पनायाश्च हृद्यं सामञ्जस्य दृश्यते स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः, प्रशमेन तुषाररश्मेनिर्मलतयाऽम्बरतलस्य संविभागमिव कुर्वाणम्,' शन्तनुमिव प्रियसत्यव्रतम् ....: पशुपतिमिव भस्मपाण्डुरोमाश्लिष्टशरीरं भगवन्तं जाबालिमपश्यम् । -अच्छोदसरोवरवर्णने सरसोऽच्छत्वमिव भाषायाः स्वच्छत्वमपि प्रेक्ष्यम्- तस्य तरुखण्डस्य मध्यमागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः , निर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशावतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, चन्द्रातपमिब रसतामुपेत्रम्-हाट्टहासमिब जलीभूतम्,'
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy