SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ बाणोच्छिष्टं जगत्सर्वम् १३५ मदनध्वजमिव मकराधिष्ठितम् . . अतिमनोहरम् अच्छोदं नाम सरो दृष्टवान् । हृदयवसतिः पञ्चबाणस्तु बाणः-प्रसत्र राघवकारो जयदेवो बाणं कविताकामिनी-मनोमन्दिर-वासिनं साक्षात् कामदेवमेव मनुते । तस्य कविताकामिनी सर्वमनोमोहिनी, सर्वचित्ताकर्षिका च । उच्यते च हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः । केषां नैषा कथय कविता-कामिनी कौतुकाय ॥ बाणो रससिद्धः कवीश्वरः । शृङ्गार रसोऽस्य प्रेष्ठो रसः। स संभोगविप्रलम्भ-पक्षद्वय-वर्णने समरूपेण दक्षः । संभोगशृङ्गारवर्णनापेक्षया विप्रलम्भ वर्णने तस्य लेखनी प्रवाहमधुरा प्रचारचतुरा च । महाश्वेता कादम्बरी च स्वप्रियतमं प्रेक्ष्य कथमिव व्याकुलतां भजतः, कथं प्रेमाङ्करोदयः, कथं विकासः पल्लवितत्वं पुष्पितत्वं चेति एतस्य मनोवैज्ञानिक विश्लेषणं तस्य कवितमत्वं पञ्चबाणत्वं च साधयति । यथा-'अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुमाहितसंताना निरीयुः श्वासमारुतः । साभिलाषं हृदयमाख्यातुमिव स्फुरितमुखमभूत् कुचयुगलम् । स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा"। कादम्बरी __ महाश्वेतावर्णने तस्यां यौवनप्रवेशस्य एकावलीमूलकं वर्णनं कथमिव मनोज्ञताम् उद्वहति 'क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् । कादम्बरी हर्षचरिते मातुर्यशोवत्या हर्ष प्रत्युक्तिः भावभाषाप्रसादादिगुणैः सर्वथा हृदयं द्रावयति- वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा। स्तन्येनैव सह त्वया पीतं मे हृदयम्। कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता। वीरजा वीरजाया वीरजननी च मादृशी पराक्र मक्रीता कथमन्यथा कुर्यात् । हर्ष० ___कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते--'शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते' ( सरस्वतीकण्ठाभरण )। बाणः पाञ्चालीरीतेमर्धन्यः कविः । अत्र भाव-भाषयोः सामञ्जस्यमपेक्ष्यते। भावानुकला भाषा, रसानुकूला च भाषा, एवं भाषाया भावस्य च समन्वयेन क्वचित् समासबहुला पदावली, क्वचित् समासरहिता प्रसादमाधुर्यगुणसमवेता सालंकृता च पदपङ्क्तिः । नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।। विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ हर्षचरित १-८ इत्यनेन कवेरभीष्टं निर्दिश्यते यत् स स्वीये काव्ये अर्थगौरवं रसपरिपाकम् ओजोगुणयुतं शब्दसंयोजनं चाकाङ्क्षति । अतएव क्वचिद् ओजोगुणः,
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy