________________
१३६
संस्कृतनिबन्धशतकम् क्वचिद् रसानुकूलं वर्णनम्, क्वचिदर्थगौरवं च परिलक्ष्यते । बाणस्य वर्णनशैली तथा सुमधुरा रसप्रधाना गुणवती यथा एकदा कादम्बरी-पठने प्रवृत्तो मानवः स्वाहारमपि न रोचते। कथायां तथौत्सुक्यं विस्मयत्वं च यथा परिणामजिज्ञासुर्जनो न पाठं निरुन्धे । चन्द्र एव चन्द्रापीड: शूद्रकश्च, पुण्डरीक एव वैशम्पायनः शुकश्च, लक्ष्मी रेव चाण्डालकन्येति को विश्वसितुं पारयति । एतदद्भुतत्वमेव कादम्बर्या रोचकत्वं वर्धयति । केचन हृद्याः प्रसङ्गा अत्रोपस्थाप्यन्ते । वसन्तर्तुवर्णने कोमलकान्तपदावल्याः समन्वयो लक्ष्यः। .
कोमलमलयमारतावतारतरङ्गितानङ्गध्वजांशुकेषु........."मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुड्मलेषु मधुमासदिवसेषु० । कादम्बरी
सन्ध्यावर्णने उत्प्रेक्षाणां माधुर्यं यथा
क्वापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना सन्ध्या मुनिभिरदृश्यत । अपराम्भसि पतिते दिनकरे....अम्भःसीकरनिकरमिव तारागणम् अम्बरम् अधारयत् । कादम्बरी
शुकनासोपदेशे विरोधाभासमूलकं लक्ष्मीस्वभाववर्णनम् । यथा___ उन्नतिमादधानापि नीचस्वभावताम् आविष्करोति । अमृतसहोदरापि कटुकविपाका । विग्रहवत्यपि अप्रत्यक्षदर्शना । पुरुषोत्तमरताऽपि खलजनप्रिया। कादम्बरी .
शुकनासोपदेशे प्रसादगुणोपेता पदावली । यथा--
न परिचयं रक्षति । नाभिजनमीक्षते। न रूपमालोकयते। न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमाकर्णयति । काद०
एवं सिध्यति-बाणोच्छिष्टं जगत्सर्वम् ।