SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ३८. संस्कृत-साहित्ये गद्यस्य विकासः (गद्य-काव्य-परम्परा) गद्यस्य स्वरूपम्-विश्वनाथेन साहित्यदर्पणे काव्यं द्विधा विभज्यतेदृश्यं श्रव्यं च । दृश्ये नाटकादिकं श्रव्ये काव्यादिकं च । श्रव्यस्यापि भेदद्वयम्पद्यकाव्यं गद्यकाव्यं चेति । तत्र गद्यस्य लक्षण निर्दिश्यते-वृत्तबन्धोज्झितं गद्यम् ( सा० द० ६-३३० ), अर्थाद् यत्र पद्यरचनायाः प्रतिबन्धो न स्यात् तद् गद्यम् । अग्निपुराणे गद्यलक्षणम् उच्यते-'अपादः पदसन्तानो गद्यं तदपि कथ्यते'। दण्डिनापि काव्यादर्श 'अपादः पदसन्तानो गद्यम्' ( काव्यादर्श १-२३) इत्युच्यते। ___गद्यकाव्यस्योत्पत्तिः-गद्यकाव्यस्योत्पत्तिविषये मतत्रयं प्रस्तूयते । (१) गद्यकाव्यस्योत्पत्तिः पद्यकाव्येभ्यो लोककथामाध्यमेन समभवत् । (२) ग्रीकगद्यरचनाभ्यो भारतीयगद्यकाव्योद्भवः । ( ३ ) पद्य-काव्य-समानान्तरम् एव स्वाभाविकक्रमिकविकासेन गद्यकाव्योत्पत्तिः । प्रथममतस्याभिमतमिदं यत् संस्कृतगद्यकाव्यानि मलतः सस्कृतपद्यकाव्योद्भूतानि । पद्यकाव्यशैलीम् अनुसृत्यैव कृत्रिमता, पाण्डित्यप्रदर्शनम्, रसालंकारादि-प्रयोगश्च तत्रोपलभ्यते। द्वितीयं डॉ० पीटर्सन ( Peterson )-प्रभृतिभिः प्रस्तूयते यद् भारतीय-गद्यकाव्यानि ग्रीकगद्यकाव्यानुसरणमूलानि । प्रो० सिल्वां लेवी ( Sylvan Levi ) मतमेतत् खण्डयति यद् ग्रीकगद्यकाव्ये कथासंयोजने बलाधानम्, भारतीयगद्यकाव्येषु तु रसालंकाराणां शैल्याः प्रकृतिवर्णनादीनां च प्राधान्यं लक्ष्यते । एवं द्वयोर्मोलिकभेदेन सर्वथा वैषम्यमिति विज्ञायते । प्रो० लाकोटे ( Lacote ) तु ग्रीकगद्यकाव्ये भारतीयगद्यकाव्यस्य प्रभावं साधयति । अतः सिध्यति यत् संस्कृतगद्यकाव्यस्य ग्रीकगद्यकाव्याद् उद्भवस्य मतं निःसारमेव । सूक्ष्मदृष्ट्या विविच्यते चेत् तृतीय मतं समीचीनतमं प्रतीयते। पद्यकाव्यधारा-समानान्तरमेव गद्यकाव्यधारापि दृग्गोचरतामुपयाति । न केवलं लौकिककाव्येऽपि तु वैदिकवाङ्मयेऽपि ऋग्वेदकालिकपद्यसमकालमेव यजुर्वेदीयम् अथर्ववेदीयं च गद्यम् उपलभ्यते । अतएव महाभाष्ये (४-३-८७ ) वासवदत्तासुमनोत्तरा-भैमरथो-प्रभृतीनाम् आख्यानग्रन्थानाम् उल्लेखः प्राप्यते । महाकवेर्दण्डिनः पूर्वमपि गुणाढयकृता बृहत्कथा, श्रीपालितकृता तरङ्गवती, धनपालकृता तिलकमञ्जरी, रुद्रदाम्नो गिरिनारशिलालेखः, प्रयागस्तम्भे हरिषेणकृता समुद्रगुप्तप्रशस्तिश्चेति गद्यकाव्यपरम्परा गद्यकाव्यस्य नैरन्तर्यम् अविच्छिन्नत्वं च प्रतिपादयति ।' १. विस्तरशो विवेचनाथं द्रष्टव्यम्-लेखककृत-सं० सा० समीक्षात्मक इतिहास, पृष्ठ ४५४-४५६
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy