________________
संस्कृतनिबन्धशतकम्
गद्यकाव्यस्य विकासः - गद्यकाव्यस्य विकासे सर्वप्रथमं वैदिकगद्यं दृग्गोचरीभवति । 'शेषे यजुः शब्द:' ( पूर्वमीमांसा २-१ - ३७ ) इत्यत्र पद्य - गीतिभिन्नं गद्यं यजुरिति कथ्यते । वैदिकगद्यस्य प्राचीनतमं रूपं शुक्लयजुर्वेदे, कृष्णयजुर्वेदस्य तैत्तिरीय - काठक - - मैत्रायणी -संहितासु प्राप्यते । अथर्ववेदेऽपि प्रचुरो गद्यांशोऽवलोक्यते । सर्वेऽपि ब्राह्मणग्रन्थाः प्रायशो गद्यात्मका एव । तत्रापि ऐतरेय - तैत्तिरीय - शतपथब्राह्मणेषु गद्यांशस्य बाहुल्यं परिलक्ष्यते ।
1
१३८
वेदाङ्गसंबद्धाः प्रातिशाख्यग्रन्थाः, श्रोत- गृह्य-धर्म-शुल्वेति चतुविधाः कल्पग्रन्थाः, निरुक्तं च गद्यात्मकसूत्रपद्धत्या निबद्धाः सन्ति ।
J
पुराणानि यद्यपि पद्यांशबहुलानि तथापि महाभारते, विष्णुपुराणे, भागवतपुराणे च प्रचुरो गद्यांश आसाद्यते । भागवतादिषु ललितपदबन्धनम् अलंकारादिसमन्वितं प्रौढम् अनवद्यं च गद्यं प्रेक्ष्यते ।
वैदिक-सूत्रग्रन्थ परम्परायामेव शास्त्रीयगद्यमपि विकसितम् । भारतीय षड्दर्शनं सूत्रात्मक - गद्यशैल्यामेव विकासमलभत । पाणिनिकृता अष्टाध्यायी सूत्रात्मक गद्यशैल्या आदर्शीभूता । शास्त्रीय भाष्य परम्परायां यास्कप्रणीतं निरुक्तम्, जयन्तभट्टकृता न्यायमञ्जरी, शबरस्वामिकृतं मीमांसाभाष्यम्, शङ्कराचार्यकृतं ब्रह्मसूत्र-शारीरकभाष्यं च प्रथिततमा गद्यग्रन्थाः ।
पतञ्जलेर्व्याकरण-महाभाष्यं प्रसादगुणाञ्चितशैल्याः समाश्रयेण लोकप्रियतायां चरमोत्कर्षं धत्ते । कौटिलीयम् अर्थशास्त्रमपि शास्त्रीयगद्यनिदर्शनत्वेनाश्रयणीयम् ।
पतञ्जले महाभाष्ये साहित्यिक गद्य-ग्रन्थानामप्युल्लेख उपलभ्यते । तत्र आख्यायिका - ग्रन्थत्रयं तेनोल्लिख्यते - १. वासवदत्ता, २. सुमनोत्तरा,
३. भैमरथी ।
ततश्च गुणाढ्य ( ७८ ई० ) - कृता बृहत्कथा बहुचर्चिता, गद्यकाव्योपजीव्यत्वेन चाङ्गीक्रियते ।
आचार्यदण्डिनः पूर्ववर्तिनः केचन गद्यग्रन्थाः प्राप्यन्ते । तत्रेमे प्राधान्येनोल्लेखमर्हन्ति–आन्ध्रभृत्यनृपाणां संरक्षणे प्रणीतानि गद्यकाव्यानि वर्तन्ते - श्रीपालितकृता तरङ्गवतो, अज्ञातकविकृता मनोवती शातकर्णीहरणं च । धनपालेन तिलकमञ्जर्याम् अभिनन्देन रामचरिते च श्रीपालितकृता तरङ्गवती प्रशस्यते । जल्हणकृत-सूक्तिमुक्तावल्यां कुलशेखरवर्म-कृता आश्चर्यमञ्जरी शीलाभट्टारिकायाश्च पाञ्चालीरीत्यां विलिखिता गद्य-कृतिश्च निर्दिश्येते । बाणेन हर्षचरितभूमिकायां भट्टारहरिचन्द्रस्य गद्यकाव्यं प्रशस्यते । 'भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते' ( हर्ष ० भू० श्लोक १२ ) ।
केचन शिलालेखादयोऽपि प्राप्यन्ते । महाक्षत्रपस्य रुद्रदाम्नः ( १५० ई० )