SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संस्कृत-साहित्ये गद्यस्य विकासः १३९. गिरिनार - शिलालेखे समासालंकारप्रचुरं गद्यं प्राप्यते । तत्र रुद्रदामा 'स्फुट -- लघु-मधुर-चित्र कान्त शब्दसमयोदारालंकृत-गद्य-पद्य लेखन-निपुणः' उदीर्यते । प्रयागस्तम्भे हरिषेण ( ३५० ई० ) - कृता समुद्रगुप्त - प्रशस्तिः ३५ पंक्तिपरिमिते एकस्मिन्नेव गद्यवाक्ये समाप्यते । यथा— 'तस्य विविधसमरशतावतरणदक्षस्य स्वभुजबलपराक्रमैकबन्धोः महाराजाधिराज श्रीसमुद्रगुप्तस्य सर्वपृथ्वीविजयजनितोदयव्याप्तनिखिलावनितलां कीर्तिम् इतस्त्रिदशपतिभवनगमनावाप्तललितसुखविचरणामाचक्षाण इव भुवो बाहुरयमुच्छ्रितः स्तम्भः ।' हरिषेणकृतं रुचिरं गद्यं बाणस्य समासबहुलाया गद्यशैल्याः पूर्वरूपम् अवगन्तव्यम् । दण्डी - ततश्च गद्यकाव्यस्य स्वर्णयुगः प्रारभते । सर्वप्रथमं दण्डिनो दशकुमारचरितम् सुबन्धोर्वासवदत्ता, बाणस्य हर्षचरितं कादम्बरी चेति गद्यकाव्यस्य रत्नानि समुपलभ्यन्ते । दण्डि - सुबन्धु- बाणभट्टा गद्यकवीनां बृहत्त्रयीरूपेणाभिनन्द्यन्ते । संस्कृत - गद्यकाव्यस्य परिष्कृतं प्राञ्जलं विशदं च रूपं दण्डिनो दशकुमारचरिताद् दृष्टिपथम् उपयाति । दण्डिनो गद्यं सरस्वत्या विलासमणिदर्पणरूपेण मधुराविजय महाकाव्य रचयित्र्या गङ्गादेव्या स्तूयते— आचार्यदण्डिनो बाचामाचान्तामृतसंपदाम् । विकासो वेधसः पत्न्या विलासमणिदर्पणम् ॥ गंगादेवी सुबन्धुः—सुबन्धु-कृत-वासवदत्तायाम् अलंकृता श्लेषबहुला शैली दृग्गोचरतामायाति । 'ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्' इति सर्वात्मरूपेण सुबन्धौ उपलभ्यते । कविः स्वकाव्य प्रशंसायामुल्लिखति - प्रत्यक्ष र श्लेषमय -- प्रबन्धविन्यास वैदग्ध्यनिधिर्निबन्धम् ( वासव० भू० १३ ) बाणभट्टः— महाकवेर्बाणभट्टस्य गद्यकाव्यरत्नद्वयम् आसाद्यते - हर्षचरितं कादम्बरी च । तत्रहर्षचरिते 'ओजः समासभूयस्त्वम् ० ' इत्यनुसृत्य दीर्घसमासयुक्ता पदावली पाण्डित्य प्रदर्शनं च प्रतिपदं निरीक्ष्यते । कादम्बरी सरस-मधुर- पदावली-संगता, रुचिरभावाभिरम्या, सरसा सालंकृतिः तरुणीव विदग्धमनोमोहिनी गद्यकाव्यसर्वस्वभूता च । कादम्बर्यां बाणः स्वपाण्डित्यप्रकर्षं सहृदयहृदयाह्लादजननरूपेण विनियुङ्क्ते | सितामधुरं व्यञ्जनमिव सर्वथा सर्वतश्च मधुरात्मिकैव कादम्बरी । अतएवोच्यते - ' कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते' । परवर्तिगद्यकाव्येषु धनपालस्य तिलकमञ्जरी, अम्बिकादत्तव्यासस्य शिवराजविजयः, विश्वेश्वरपाण्डेयस्य मन्दारमञ्जरी, हृषीकेशभट्टाचार्यस्य प्रबन्धमञ्जरी - नामको निबन्धसंग्रहः, पण्डिता क्षमारावकृता कथामुक्तावली, राम-शरण त्रिपाठिकृता कौमुदीकथाकल्लोलिनी च विशेषरूपेणोल्लेख मर्हन्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy