SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ३९. नाटकोत्पत्तिविषयका वादाः ( नाट्योत्पत्ति-समीक्षा) नाट्योत्पत्तिस्तु वेदेभ्य इन्द्रध्वजमहाग्रणीः। पर्वाणि रासलीलाद्याः विकासाङ्गस्वरूपिणः॥ ( कपिलस्य ) नाटकानाम् उत्पत्तिः'-भारतीयनाटकानाम् उत्पत्तिविषये विविधा वादा भारतीयैः पाश्चात्त्यैश्च विद्वद्भिः प्रस्तूयन्ते । एतस्मिन् विषये सर्वप्रथम भारतीया परम्परा विवेचनम् अर्हति । भारतीय-परम्परा-भारतीय-नाट्यशास्त्रस्योत्पत्तिविषये महामुनिना भरतेन स्वीय-नाट्यशास्त्रे उल्लिख्यते यद् देवानां प्रार्थनाम् उररीकृत्य ब्रह्मा चतुर्वेदाङ्गसंभवं सर्ववर्णरुचिकरं पञ्चमं वेदं नाट्यशास्त्रं नाट्यवेदं वा प्रणिनाय । स वेदचतुष्टयाद् नाट्यशास्त्रोपयुक्तं तत्त्वचतुष्टयं जग्राह । ऋग्वेदात् पाठ्यम, सामवेदाद् गीतम्, यजुर्वेदाद् अभिनयम्, अथर्ववेदाच्च रसतत्त्वम् । एवं पञ्चमो वेदोऽयं नाट्यवेदः सर्ववर्णमनोरञ्जकत्वेन प्रादुरभवत् । उक्तं च नाट्यशास्त्रे तस्मात् सृजापरं वेदं पञ्चमं सार्ववणिकम् ॥ ना० शा० १-१२ एवं संकल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्र चतुर्वेदाङ्गसंभवम् ॥ ना० १-१६ जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ ना० १-१७ ऋक्संवाद-सूक्तवादः-वादस्यैतस्य प्रवर्तकाः प्रायशः पाश्चात्त्या 'विपश्चित एव । तत्र मख्याः सन्ति-प्रो० मैक्समूलर ( Max Muller ), प्रो० सिल्वां लेवी ( Sylvan Levi ), प्रो० फॉन श्रोएदर ( von Schroeder , डा० हर्टल ( Hertel )- प्रभृतयः । एषां मतं भारतीयपरम्परया प्रचुरं साम्यं धत्ते । एतन्मतानुसारं संस्कृतनाटकानाम् उत्पत्तिः ऋग्वेदीयसंवादसूक्तेभ्यः समजनि । ऋग्वेदे कानिचित् संवादसूक्तानि उपलभ्यन्ते । तेषाम अभिनयात्मिका व्याख्यापि प्रस्तोतुं शक्या । यथा-इन्द्र-मरुत्-संवादः, विश्वामित्र-नदी-संवाद:, यम-यमी-संवादः, पुरूरवा-उर्वशी-संवादश्चेति । प्रो० ओल्डेनबर्ग ( Oldenberg ), विन्डिश (Windisch ), पिशेल ( Pischel ) - प्रभृतीनां मतमेतद् यत् सूक्तान्येतानि नाटकीयतत्त्वोपेतानि समभूवन् । वीरपूजावादो मृतात्मश्राद्धवादो वा-प्रो० रिजवे ( Ridgeway ) नाटकोत्पत्ति वीरपूजावादेन मृतात्मश्राद्धवादेन वा मनुते । विश्वस्य सर्वासु १. विशद-विवेचनार्थ द्रष्टव्यम्-लेखककृत-संस्कृत साहित्य का समीक्षात्मक इतिहास पृष्ठ २६५-२६९।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy