________________
नाटकोत्पत्तिविषयका वादाः
१४१ संस्कृतिषु मृतात्मनां स्मृतौ श्रद्धाप्रदर्शनम् अवलोक्यते । यूनानदेशे दुःखान्तनाटकानां विकासो मृतात्मश्रद्धापद्धत्याः संजातः, तद्वद् भारतेऽपि वीरपुरुषेभ्यः श्रद्धाप्रदर्शनप्रक्रियया नाट्योत्पत्ति: संजाता।
एतन्मतं न भारतीयैर्न च पाश्चात्त्यैर्विद्वद्भिः स्वीक्रियते । एतन्मतानुसारं यूनानदेशोद्भवानां दुःखान्तानां नाटकानाम् उत्पत्तिवर्णयितुं शक्या, परं भारतीयसुखान्तनाटकानां जन्म एतन्मतानुसारं न शक्यं न च ग्राह्यम् ।
__ पर्ववादः--पाश्चात्त्यविद्भिर्मतमेतत् प्रस्तूयते यद् यूरोपदेशे मे-पोल ( : 'ay pole )-नामकं पर्व साभिनयम् आयोज्यते । तद्वत् इन्द्रध्वजमहोत्सवोऽपि अभिनयप्रधानोऽभूत् । परस्तादपि पर्वसु अभिनयादीनाम् आयोजनं संलक्ष्यते । एतादृशेभ्य आयोजनेभ्यो नाटकोत्पत्तिरवगन्तव्या।
एतन्मतमपि न विद्वद्भिराद्रियते । तत्र नाभिनयादीनां प्राधान्यम्, अपि. तु स्वहर्षोद्भावन-पुरःसरं नृत्यादिकं तत्रायोज्यत ।
रासलीलावादः--कैश्चिदेतन्मतमपि प्रस्तूयते यत् कृष्णस्य रासलीला, कृष्णोपासना-संबद्धा विविधा रासलीलाश्च नाटकानां मूलत्वेनावगन्तव्याः ।
एतन्मतमपि मूलरूपेणास्वीकार्यम् । यद्येवं स्वीक्रियते तहि शिव-विष्णरामादि-संबद्धानि नाटकानि न व्याख्यातुं शक्यानि ।
वैशिकाभिनयवादः ( स्वांगवादः)--प्रो० हिलब्रांड ( Hillebrandt ), प्रो० स्टेन कोनो ( Sten konoN )- प्रभृतीनां मतमेतद् यद् लोकप्रियवैशिकाभिनयेभ्यः 'स्वाँग'-नामकेभ्योऽभिनयेभ्यो नाटकानाम् उत्पत्तिः । वैशिकाभिनया एव रामायण-महाभारतादिकथासंबद्धा नाटकानां मूलरूपाः ।
एतन्मतमपि न विद्वदभिमतम् । वैशिकाभिनयाः परिष्कृतनाटकानामेव विकृतरूपाः । एते चासभ्यैः अर्धसभ्यैश्च जनैः प्रयुज्यन्ते ।
पुत्तलिकानत्यवादः-शर्मण्यदेशीयो विद्वान् डा० पिशेल ( Pischel )महोदयः पुत्तलिकानृत्यमेव नाटकस्य मूलरूपं मनुते । पुरा पुत्तलिकानत्यं प्रचलिततमम् अभवत् । संस्कृतनाटकेषु प्रयुक्तौ सूत्रधार-स्थापक-शब्दो एतदेव अभिव्यक्तः । अत्र सूत्रग्रहणं स्थापनं चेति मतमेतत् पोषयतः ।।
एतन्मतमपि न सहृदयहृद्यम् । पुलिकानृत्यमपि परिष्कृतनाटकानामेव विकृतं रूपम्, अशिक्षितजनप्रयुक्तं च । एतादृशेन सामान्यनृत्येन रसभावविभूषितानां भारतीयनाटकानाम् उत्पत्तिरिति निष्प्रमाणम् अग्राह्यं चैतत् ।
छायानाटकवादः--प्रो० ल्यूडर्स ( Luders ), प्रो० स्टेन कोनो ( Sten kono's ) च समर्थयेते यद् छायानाटकेभ्यः ( Shado wplays ) नाटकानाम् उद्भवः ।
एतन्मतमपि अपुष्टप्रमाणमूलत्वाद् निराधारत्वाच्च न विद्वज्जन