SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ संस्कृतनिबन्धशतकम् स्वीकार्यम् । प्राचीनतमे काले छायानाटकानां स्थितिर्न श्रूयते न च ग्रन्थेषूपलभ्यते। यूनानदेशीय-प्रभाववाद:--प्रो० वेबर (weber ), प्रो० विन्डिश ( Windisch )- महोदयौ मतमेतत् समर्थयेते यद् भारतीयनाटकानां जन्म यूनानदेशीयप्रभावमूलकमेव । 'यवनिका' शब्दश्च मूलमेतस्य । एतन्मतमपि न निर्दोषम् । डा० कीथ ( Keith ) महोदयः स्वीये 'संस्कृत नाटक'-ग्रन्थे विषयेऽस्मिन् प्रभूत-विवेचनानन्तरं निष्कर्ष प्रस्तौति यद् भारतीयनाटकेषु यूनानदेशीय-प्रभावावस्थापनं सर्वथा असंगतम् असमीचीनं च । विषयेऽस्मिन् अधोविन्यस्तम् अवधेयम् - (१) यवनिका' शब्दम् आश्रित्य भ्रम एषः। 'यवनिका'-शब्दो यवनदेशागत-वस्त्रनिर्मितावरणं द्योतयति । एतन्मूलको यवनदेश-प्रभावो निराधारः । (२) संस्कृतनाटकानां विभाजनं कार्यविश्लेषणमूलकम, न तु तत्तथा यवनदेशीयनाटकेषु । (३) भारतीयनाटकानि सुखान्तानि, न तू दुःखान्तानि । यूनानदेशीयनाटकानि प्रायशो दुःखान्तानि । (४) संस्कृतनाटकेषु काल-समय-क्रियारूपस्य अन्वितित्रयस्य संकलनत्रयस्य वा ( uuity of time, place and action ) सर्वथा अभावः। यनानदेशीयनाटकेषु अन्वितित्रयम् अनिवार्यरूपेण प्रयुज्यते। (५.) आवरणार्थको 'यवनिका'-शब्दो वस्तुतो 'जवनिका'-शब्दः । जकारादिरयं न तु यकारादिः । ( ६ ) पात्रसंख्यादृष्ट्यापि द्वयोर्महद् वैषम्यम् । (७) भारतीयनाटकेषु अङ्गरक्षिकारूपेण 'यवनीनाम्' उपयोगः। अतस्तन्मूलको यवनदेशप्रभावोऽसंगतः । (८) रङ्गमञ्चदृष्ट्यापि द्वयोर्नाटयशालानिर्माणे महदन्तरम् । विन्डिशमहोदयस्तु स्वीकुरुते यत् प्रेक्षागृहनिर्माणदृष्ट्या द्वयोस्तुलनाऽपि न संभाव्यते । निष्कर्षः-नाटकोत्पत्तिविषयक-विविधवादानां विवेचनेन प्रतीयते यद् नाट्यशास्त्रे भरतमुनिना यन्निर्दिश्यते तत् समीचीनतमम् । भरतो नाट्यवेदं चतुर्वेदाङ्गसंभवं मनुते । वेदचतुष्टय्यां पाठ्यस्य संगीतस्य अभिनयस्य रसानां चोपलब्धिर्भवति । नाटकस्य मूलत्वेन एतदेव तत्त्वचतुष्टयं गण्यते । ऋग्वेदीय-संवादसूक्तानि प्राक्तना अभिनयात्मकाः प्रयोगाः। एतादृशाः प्रयोगा न केवलं यज्ञसंबद्धा एव, अपितु धार्मिकक्रिया-कलापाङ्गभूताः । धार्मिका अभिनया लोकप्रियताहेतोः पर्वोत्सवादीनामपि अङ्गभूताः । एतस्मात् कारणादेव पुरा इन्द्रध्वजमहोत्सवादिषु परस्ताच्च रामलीला-कृष्णलीला-रासलीलादिषु धार्मिकाभिनयानां प्रयोगः। एवं पर्ववादो रासलीलावादश्च संस्कृत-नाट्यविकास-प्रक्रियाया अङ्गत्वेन विज्ञेयौ।।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy