SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ४०. अपारे काव्यसंसारे कविरेव प्रजापतिः ( १. भारती कवेर्जयति, २. इदमेव तत्कवित्वं यद् वाचः सर्वतो दिक्काः, ३. गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः). कवित्वं जीवनं ज्योतिर्दर्शनं प्रतिभात्मकम् ।। बोद्धृकर्तृत्वशक्तित्वं ज्ञानसारग्रहैकदृक् ॥ ( कपिलस्य ) किं नाम कवित्वम्--कविः क्रान्तदर्शी। यत्र यत्र क्रान्तदर्शित्वं त्तत्र तत्र कवित्वम् । क्रान्तर्शित्वाद् व्यापकज्ञानवत्त्वकारणादेव यजुर्वेद ईशोपनिषदि चेश्वरः कविरिति स्तूयते । 'कविर्मनीषी परिभूः' ( यजु० ४०-८ ) । मुण्डकोपनिषदि सत्यदर्शिनः तत्त्वार्थविदश्च कवय इति निगद्यन्ते ।। तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् । तानि बहुधा सन्ततानि ॥ (मुण्डक० १-२-१) अत्र 'ऋषयो मन्त्रद्रष्टारः' इत्यर्थमाश्रित्य ऋषयः कवय इत्युच्यन्ते । तैस्तत्त्वदर्शिभिः मन्त्रेषु यानि कर्माणि दृष्टानि, तान्येव वेदत्रय्यां संनिहितानि । एवं संलक्ष्यते यत् तत्त्वार्थदर्शित्वम् ऋषित्वं कवित्वं च परस्परसंबद्धमेव । यत्र दिव्यम् अलौकिकं प्रतिभामूलकं कल्पनाजन्यं वा ज्ञानं संलक्ष्यते, तत्र कवित्वं स्वीक्रियते। अतएव श्रीभट्टतोतेन कविलक्षणं निदिश्यते यत्-तत्त्वदर्शनाद् ऋषिः । ऋषिरेव कविपदम् अलंकतु प्रभवति । यः तत्त्वदर्शने क्षमः, दिव्यज्ञानपरिष्कृतश्च स एव कविः । कविशब्दः 'कवृ वर्णे' धातोः सिध्यति । यः तथ्यवर्णने, वस्तुवर्णने, तत्त्वार्थचित्रणे च प्रभवति स कविः । अतएवादिकवेल्मिीके: तत्त्वार्थदर्शित्वेऽपि न कवित्वपदलाभः, परं यदैव तस्य वागुन्मेषः समभवत्, यदैव च कारुण्यपूर्णा भावावलिः शब्दशरीरम् आश्रित्य तरङ्गिता तरङ्गिणीव तरसा निर्जगाम, वचोभङ्गीमधुरा वर्णनहृद्या च उद्वेलेव भाव-भागीरथी प्रसृता, तदैव स आदिकविपदम् अलंचकार । उक्तं च भट्टतोतेन नानृषिः कविरित्युक्तम् ऋषिश्च किल दर्शनात् । विचित्रभावधर्माश-तत्त्वप्रख्या च दर्शनम् ॥ स तत्त्वदर्शनादेव शास्त्रेष प्रथितः कविः। दर्शनाद् वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ । तथाहि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः। नोदिता कविता लोके यावज्जाता न वर्णना॥ इदमेव तत्कवित्वं यद् वाचः सर्वतोदिक्का:-कवित्वं हि केवलं वस्तुवर्णनेनैव न साफल्यम् अश्नुते । कवेः कर्म गूढतरं क्लिष्टतरं च । कविः लोकस्य मार्गप्रदर्शकः, आचार्यः, शिक्षकः, नीतितत्त्वोपदेष्टा, व्यवहारज्ञानशिक्षकश्च ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy