________________
१४४
संस्कृतनिबन्धशतकम्
अतएव कवी विविधविषयनिष्णातत्वस्य, अगाधज्ञानस्य, सहृदयत्वस्य, मनोवैज्ञानिकत्वस्य, अन्तर्दृष्टेश्च समन्वयोऽपेक्ष्यते। विविविषयावगाहिज्ञानेनैव स जीवनस्य सर्वाङ्गीणं विवेचनं विश्लेषणं च प्रस्तोतुं प्रभवति । सर्वाङ्गीणेन व्यापकेन च विवेचनेन कवेः कवित्वपदलाभः।
भामहेन काव्यालंकारे कवेः कर्म निर्दिशता प्रोच्यते यत्-सर्वाः कलाः, सर्वा विद्याः काव्यस्याङ्गभूताः । तत्र बाह्यरूपस्य अलंकारादिरूप-कलापक्षाश्रयणेन, अन्तरात्मरूपस्य काव्यात्मतत्त्वस्य रसभावादिविवेचनेन संपुष्टिः संजायते । अतो भामहः कवेर्महतो भारस्योल्लेखं कुर्वन्नाह
न स शब्दो न तद वाच्यं न सा विद्या न सा कला।
जायते यन्न काव्याङ्गम, अहो भारो महान् कवेः ॥ एमर्सन ( Emerson ) - महादयोऽपि कवेर्वाणी स्तनयित्नुरूपेण विधानरूपेण च स्वीकरोति ।
Poet's speech i: thunder, his thought is lan, his words are universally intelligible is the plants and animals. -Emersɔ.1.
शेली ( Shelley )- महोदयः कवेः कर्म आचारशिक्षकत्वेन समाजपथप्रदर्शकत्वेन चाङ्गीकरोति
Poets are not only authors of language and music, but they are the institutɔrs of laws and founders of civil society and inventors of the art of life and the teachers who dray into a certain propinquity with the Beautiful and the True.
-Shelley. गिरः कवीनां जीवन्ति०-कवेः कर्म काव्यम्, इत्याश्रित्य न केवलं वस्तुवर्णनेन, कथानकस्य पद्यात्मरूपप्रदानेन, इतिकर्तव्यता सिध्यति । तत्र किमपि मौलिकं तत्त्वम्, मौलिकं दर्शनम्, मौलिक चिन्तनं वाऽपेक्ष्यते, तदैव काव्य-गौरवम् । दर्शनाद् ऋते न ऋषित्वं न च कवित्वम् । उक्तं च'नानषिः कविरित्युक्तम, ऋषिश्च किल दर्शनात्'। जीवनस्य तात्त्विक विवेचनम्, विश्लेषणम्, गम्भीरं मनोवैज्ञानिकं चाध्ययनं काव्येऽनिवार्यम् । एतादृश-गुणसम्पन्न एव कविमूर्धन्यत्वं भजते। कॉलरिज ( coleridge )महोदयोऽपि प्रकृष्टदार्शनिकदृष्टिमन्तरेण न कवित्वमुरीकरोति ।
No man was ever yet a great poet without being at the same time a profound philosopher.—Coleridge.
भारती कवेर्जयति-कवेर्भारती जगत्त्रयलोचनभूता लोकोपकारिणी च, अतएव सा प्रशस्यते । सा घोरे निशीथे ज्ञानज्योतिवलयति, अज्ञानान्ध