________________
१४५
अपारे काव्यसंसारे कविरेव प्रजापतिः तमसं ध्वंसयति, मनोव्यथाम् अपहरति, शोकानलं शमयति, दुःखसन्तापं च दमयते । अतो रससिद्धानां कवीनां यशःकाये जरामरणजं भयं न लक्ष्यते ।
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति येषां यशःकाये जरामरणजं भयम् ॥
कवित्वं न सुकरं कर्म । पूर्वपुण्याजित-संस्कारवशात् प्रतिभासंपन्नत्वम्, तदैव कवित्वम्, कवित्वे च शक्तिमत्त्वम् । अतएवाग्निपुराणे समर्थ्यते
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ अग्निपुराण ३३७-४
एतस्मात् कारणादेव साहित्यसंगीतकलाविहीनस्य साक्षात् पशुत्वम् अभिधीयते
साहित्यसंगीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानस्तद् भागधेयं परमं पशूनाम् ॥
अपारे काव्यसंसारे०-अपारे काव्य-जगति कविरेव प्रजापतिः । स यथैव वस्तुतत्त्वं प्रस्तोतुम् ईहते, तथा प्रस्तोतुं प्रभवति । अतएव मम्मटेन काव्यप्रकाशे विधातुः सृष्टेरपि कविसृष्टेमहत्त्वं प्रतिपाद्यते यत् कवेर्भारती सर्वथा स्वतन्त्रा, आनन्दस्वरूपा, विधिनियमैरनिगडिता, नवरसरुचिरा चेति ।
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरा निमितिमादधती भारती कवेर्जयति ॥ काव्य० १-१
सर्वप्रथमम् अग्निपुराणे ( अ० ३३९ ) प्रोच्यते-'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथैतत् परिवर्तते ॥' एतस्यैवाभिप्रायम् आदाय ध्वन्यालोके आनन्दवर्धनेनाप्युच्यते यत् कविः स्वेच्छया यद् वस्तु यथा निधित्सति, तथैव निदधाति । शृङ्गारी कविः सर्वं वर्णनं रसमयं विधत्ते, नीरसश्च नीरसम् । स चेतनम् अचेतनवद्, अचेतनं चेतनवच्च वर्णयितुं प्रभवति । 'कर्तुम् अकर्तुम् अन्यथाकर्तुं च यः प्रभवति स प्रभुः' इति लक्षणोक्तदिशा कवेः प्रभुत्वे न संशोतिलेशोऽपि । उक्तं च ध्वन्यालोके
अपारे काव्यसंसारे कविरेकः प्रजापतिः। यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥ भावानचेतनानपि चेतनवच्चेतनानचेतनवत् ।
व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ ध्वन्या०, उद्योत ३
कवेः स्वातन्त्र्यम् उद्वीक्ष्यैव 'निरङ्कुशाः कवयः' इति भण्यते । न केवलं चेतनाचेतनयोधर्मपरिवर्तने एव कविः प्रभवति, अपि तु स मानवं देवम्, देवं
१०