________________
५५. परोपकाराय सतां विभूतयः
को नाम परोपकारः - परेषामुपकारः परोपकारः इत्यभिधीयते । समाजे मानवः परस्य हितसाधनार्थं यत् किंचिद् वितरति मनसा वाचा कर्मणा वा परार्थं संपादयति, परेषां हितं वाऽनुतिष्ठति, सर्वं तत् परोपकारो गण्यते ।
1
परोपकारस्योपयोगिता -- परोपकार एव स गुणो येन समष्टेव्यंष्टेर्वा समुत्कर्षः संपद्यते । जीवने सर्वेऽपि सर्वोत्कर्षम् अभिलष्यन्तः, स्वोदरपूर्त्येकमतयः, स्वार्थसाधनतत्पराः, स्वानुजिघृक्षया इष्टकर्मजातं संपादयन्तोऽवलोक्यन्ते । यदि सर्वोऽपि लोकः स्वार्थभावनयैव प्रेरितः स्यात् तर्हि कथमिव सामाजिकी राष्ट्रया वा समुन्नतिः संभाव्येत । परस्पर सद्भावेनैव स्वार्थं विहाय परार्थसाधनेन, परदुःख निवारणेन, लोकोपकृति-साधनेन, सर्वजीवानुग्रहेण च भौतिकोऽभ्युदयः समासाद्यते । समाजस्य स्थितिरेव परोपकाराधारा । परोपकरणं लोकानुग्रहसाधनेन परदुःखनिवारणेन च सकले लोके आत्मीयत्वं साधयति । उकं व यजुर्वेदे -
यस्मिन्त्सर्वाणि भूतान्यात्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ यजु० ४०-७ परोपकारस्य महत्त्वम् - - परोपकारेणैव विश्वबन्धुत्वं समाजसेवित्वं देवत्वं च सिध्यति । वेदेषु यज्ञपद्धत्या, स्वाहा ( स्व + आ + हा ) - शब्देन, 'इदं न मम' इत्यादिना च स्वार्थपरित्याग एवादिश्यते । स्वत्व - परत्व-भावपरित्यागेनैव उदारचरितत्वं महात्मत्वं विश्वबन्धुत्वं च संसाध्यते । उक्तं चअयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितो० १-६९
नश्वरेण क्षणभङ्गुरेण च कलेवरेण यदि परोपकारकृतिभिः स्थास्नु यशः संचीयते, तर्हि किं लाभान्तरम् अन्वेष्यम् ? साधूच्यते
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥
'प्रकृतिश्चेद् अवलोक्यते तर्हि सर्वत्र सततं परोपकारप्रक्रियैव संलक्ष्यते । भानुजंगदिदं द्योतयति विधुर्भुवनम् आह्लादयति; मातरिश्वा मृतप्रायेऽपि प्राणसंचारं विधत्ते; अनलः शैत्यादिकं वारयति भक्ष्यादिकं च पाचयति; सरितो जलेन मेघाश्च वृष्ट्या शस्यं जनयन्ति; वृक्षाः फलैर्क्षधाम् अपहरन्ति; पशवो दुग्धप्रदानेन मानवं संपोषयन्ति पुष्पाणि फलानि वनस्पतयश्च स्वाथं विहाय परार्थे प्रवर्तन्ते । एवं सर्वत्रैव प्रकृतौ परोपकरणं संलक्ष्यते । उक्तं च
परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥ विक्रमो०६६