SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९८ संस्कृतनिबन्धशतकम् परोपकृतिनिरताः प्रकृत्या विनयम् आश्रयन्ति । फलागमे शाखिनोऽपि नम्रत्वं दधति । घना जलभारभरिता भृशम् अवनमन्ति । उक्तं च भवन्ति नम्रास्तरवः फलागमैनवाम्बुभिभूरिविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् ॥ नीति० १-७१ परोपकारः पुण्याय-शास्त्रेषु परोपकारः प्रतिपदं प्रशस्यते, अनुमोद्यते च । प्राणैरपि धनैरपि परोपकारः कार्यः। न च परोपकार-सदृशं पुण्यं यज्ञशतेनाऽपि संभाव्यते। परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि ॥ सुभाषित०, पृ० ७४ . अष्टादश-पुराणकर्तुर्व्यासस्य उपदेशसहस्रेषु द्वयमेव तस्याभिमतम्'परोपकारः पुण्याय, पापाय परपीडनम् ।' अष्टादशपुराणंषु व्यासस्य वचनद्वयम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ पशवोऽपि स्वचर्मप्रदानेन नराणाम् उपकृति विदधति । परोपकार-विहीनस्य जीवनं निःसारमेव । परोपकारशून्यस्य धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां चर्माण्युपकरिष्यति ॥ सुभाषित०, ७४ मानवस्य शरीरावयवाणां परोपकारेणैव साफल्यम् । चकास्ति जीवनं परोपकारेणैव । यथा श्रोत्रं विद्यया, तथैव पाणिर्दानेन, न तु कङ्कणेन विभाति । श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥ नीति० १-७२ सत्सु परोपकृतिभावना नैसर्गिकी समीक्ष्यते । ते जन्मावधि परोपकरणेन स्वजीवनं सफलयन्तोऽवलोक्यन्ते । प्रकृती सूर्यचन्द्रादीनामेष एव परोपकृतिस्वभावः प्रशस्यते। पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम् । नायथितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः॥ नीति० १-७४ परोपकारभावनयैव महर्षिर्दधीचिर्देवानां हिताय स्वीयम् अस्थिजात प्रादात् । महाराजः शिविः कपोतसंरक्षणार्थं स्वमांसं श्येनाय प्रायच्छत् । महर्षिदयानन्दो महात्मा गान्धिश्च भारतभूमि-हितायैव स्वीयान् असून अहासिष्टाम् । अतः साधूच्यते परोपकाराय सतां विभूतयः।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy