________________
५६. आचारः परमो धर्मः ( १. शीलं परं भूषणम्, २. वृत्तं यत्नेन संरक्षेत्; ३. सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव, ४. सदाचारः।)
आचारस्य लक्षणम्-को नाम आचार: ? कथं वा साध्यश्च ? सताम् आचारः सदाचार इति निगद्यते । सज्जना यथैवाचरन्ति व्यवहरन्ति च, तद्वदाचरणं सदाचारः । सदाचारे सर्वेषामेव सद्गुणानां समावेशोऽभीष्यते । तत्र च प्राधान्येन जितेन्द्रियत्वं संयमो दमो वागादिनिग्रहः सत्य-अहिंसा-ब्रह्मचर्यसेवनं सत्कर्मप्रवृत्तिर्दुरित-निवृत्तिश्च प्रशस्यते। महात्मना बुद्धेन निर्दिश्यते यद् योऽधर्माद् विरमति, इन्द्रियाणि संयच्छते, ब्रह्मचर्यम् उपास्ते, वाक्कायमनोभिः सुसंयतः, स सदाचारवान् इति ।।
कायेन संवुता धीरा अथो वाचाय संवुता। मनसा संवुता धीरा ते वे सुपरिसंवुता ॥धम्मपद १७-१४ न इच्छेय्य अधम्मेन समिद्धिमत्तनो। स सीलवा पञ्चवा धम्मिको सिया ॥ धम्म० ६-९ यथागारं सुच्छन्नं वुट्ठी न समतिविज्झति । एवं सुभावितं चित्तं रागोन समतिविज्झति ॥ धम्म० १-१४
आचारस्य महत्त्वम्-आचार एव सदाचार-शिक्षणेन, शीलविनियोगेन, विनयसम्पादनेन, धृति-दाक्ष्यादिगुण-संवर्धनेन, शारीरिक-बौद्धिकमानसिकोन्नतिप्रदानेन जगदिदं बिभर्ति । अतएव मनुना व्यादिश्यते यत् सदाचार एव साक्षाद् धर्मः।
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षात् धर्मस्य लक्षणम् ॥ मनु० २-१२
सदाचारपालनेनैव श्रेष्ठत्वं गुणोत्कृष्टत्वं चासाद्यते । यो ह्याचाराद् हीनः, न स वेदफलमश्नुते । आचारेण च संयुक्तः सर्वां सिद्धि समधिगच्छति । सदाचार एवं सर्वेषां तपसां मूलम् । सदाचारविहीनस्य सर्वाऽपि क्रिया निष्फलैव । आचारहीनं न वेदादयोऽपि पावयितं क्षमन्ते ।
आचाराद् विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग भवेत् ॥ मनु० १.१०९ सर्वस्य तपसो मूलमाचारं जगहुः परम् ॥ मनु० १-११० वेदास्त्यागाश्च यज्ञाश्च नियमाश्च तपांसि च। न विप्रदुष्टभावस्य सिद्धि गच्छन्ति कहिचित् ॥ मनु० २-९७
आचारहीनं न पनन्ति वेदाः।। आचारस्योपयोगितत्वम्-आचार एव जगति सर्वार्थसाधकः । आचारा