SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ f २०० संस्कृतनिबन्धशतकम् देव दीर्घायुष्यं समुन्नतिर्धनावाप्तिः कुलक्षणनिवृत्तिश्च। अतएवाचारवर्णने विष्णुस्मृतौ निर्दिश्यते नाश्लोलं कीर्तयेत् । नानृतम् । नाप्रियम् । धर्मविरुद्धौ चार्थकामौ । लोकविद्विष्टं च धर्ममपि । विष्णुस्मृति आचाराल्लभते चायुराचारादीप्सितां गतिम् ।। आचाराद् धनमक्षय्यम् आचाराद हन्त्यलक्षणम् ॥ विष्णुस्मृति । सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः। श्रदधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ विष्णुस्मृति विद्वज्जनादृतं सत्पुरुषानुष्ठितं देशीयाचारसंनद्धं पारम्परिकक्रमागतम् आचारमपि संगृह्णन्ति विज्ञाः सदाचारे । उक्तं च मनुना यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः। वर्णानां सान्तरालानां स सदाचार उच्यते ॥ मनु० २-१८ वृत्तं यत्नेन संरक्षेत्-जीवने यदि विद्यते किंचन शाश्वतं तत्त्वम्, तर्हि तद् वृत्तम् एव । चरित्रमेव पुरुषस्य सर्वस्वम् । चरित्ररक्षणेनैव मानवत्वं देवत्वं च । तदभावे दानवत्वं पिशाचत्वं च । चरित्रं हि जीवनस्य सर्वस्वम् । तदेव सर्वथा संरक्ष्यम् । उक्तं च वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ महाभारत आङ्ग्लभाषायामपि सूक्तं केनापिIf we alth is lost nothing is lost. If health is lost something is lost. If character is lost everything is lost. इन्द्रियसंयमेनैव सर्वाभीष्टावाप्तिर्मनोरथानां सिद्धिश्च । उक्तं च विष्णुस्मृती दमः पवित्रं परमं मङ्गल्यं परमं दमः। दमेन सर्वमाप्नोति यत् किंचिन्मनसेच्छति ॥ विष्णुस्मृति . सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव-यथा सत्कविप्रणीतानि काव्यानि सुवृत्तैर्माधुर्योपेतैः सुन्दरछन्दोभिः शोभन्ते, तथैव सज्जनाः सवृत्तेन सदाचारपालनेन च चकासति । सद्वृत्तस्य परिपालनेनैव श्रीरामचन्द्रो मर्यादापुरुषोत्तमत्वम् अलभत । सद्वृत्तरक्षणार्थमेव लक्ष्मणः शूर्पणखाया नासिकाम् अच्छिनत् । चरित्ररक्षार्थमेव शतशो राजर्षिकन्यका वध्वश्च पद्मिनीप्रभृतयो वीराङ्गनाश्च सतीत्वं वविरे। सदाचाराभावादेव वेदशास्त्र-निष्णातोऽपि, पुलस्त्यमुनिवंशजोऽपि, ब्राह्मणोऽपि दशाननो राक्षसत्वं प्रपेदे । वेदेऽपि आचारस्य
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy