________________
आचारः परमो धर्मः
२०१ ब्रह्मचर्यस्य च महत्त्वं वर्णयता प्रोच्यते यद् ब्रह्मचर्येणैव देवा मृत्युं विजिग्यिरे । इन्द्रोऽपि ब्रह्मचर्यबलेनैव देवेभ्यः क्षेमं दिदेश ।
ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत । ___ इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत् ॥ अथवं० ११-५-१९
शीलं परं भूषणम्-जीवने शीलमेव सद्गुणसाधनम् । यत्र शीलं तत्रैव धर्मः सत्यं तेजो बलं च निवसन्ति । नहि जगति किचिदप्यसाध्यं शीलवताम् । सर्वेषां गुणानामाधारः शोलम् । शीलेन त्रिभुवनमपि जेतुं शक्यम् । उक्तं च महाभारते
शोलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
नहि किचिवसाध्यं वै लोके शीलवता भवेत् ॥ महा० शीलेनैव नैरोग्यं तेजस्वित्वं दुःखौघध्वंसनं दर्शनीयत्वं च प्राप्यते । नीरोगः कान्तिसम्पन्नः सर्वदुःखविजितः।।
सदाचारी भवेल्लोके दर्शनीयस्तु सर्वदा ॥ महा०
भर्तृहरिणा शीलमेव सर्वगुणानां कारणं सर्वोत्तमम् बाभूषणं च व्यादिश्यते।
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् । नीतिशतक १-८३
महात्मना बुद्धेन शोलगुणस्य महत्त्वं वयते यत् शीलगन्धः चन्दनतगर-कमलादि-गन्धानप्यतिशेते। शीलवतां जितेन्द्रियाणां सम्यग्ज्ञानवतां च मार्ग कामोऽप्यवरोखून प्रभवति ।
चन्दनं तगरं वापि उप्पलं अय वस्सिको। एतेसं गन्घजातानं सोलगन्धो अनुत्तरो॥धम्मपद ४-१२ तेसं सम्पन्नसीलानं अप्पमादविहारिनं। सम्मद आविमूत्तानं मारो मग्गं न विन्दति ॥धम्म०४-१४
एवं सिध्यति यद् आचार एव सर्वोन्नतिसाधकः परमो धर्मश्चेति । साधूच्यते-आचारः परमो धर्मः ।