SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिवन्धशतकम् विपदि सुखे दुःखे चाजस्रं साहाय्याचरणेन धर्मः परमः सुहृत् । न केवलं जीवने, परत्रापि सुखसाधनेन धर्मस्य परमबन्धुत्वं परममित्रत्वं च व्यादिश्यते। उच्यते च एक एव सुहृद धर्मो निधनेऽप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत्त गच्छति ॥ धर्मः स नो यत्र न सत्यमस्ति-सत्य-अहिंसादिगुणव्यपेतो न धर्मः । सत्यं धर्मस्य मूलम् । सत्याद् ऋते न धर्मस्य प्रतिष्ठा । सत्याश्रयैव धर्मवृत्तिः । यत्र सत्यं तत्र धर्मः, तदभावे तदभावः । साम्प्रतं लोके धर्मस्य द्विविधं रूपम्-कर्मकाण्डमूलकम् आचारमूलकं च । लोके ये धार्मिका विवादाः प्रवर्तन्ते, प्रवतिष्यन्ते च, तेषां मूलं कर्मकाण्डमेव । नहि धर्मो विद्वेष शिक्षयति । ये साम्प्रतं विविधाः संप्रदायाः ते 'भिन्नरुचिहि लोकः', 'मुण्डे मुण्डे मतिभिन्ना', इति प्रवादमाश्रित्यैव प्रवर्तन्ते । ते विवादं संघर्ष, मनोमालिन्यं चानुदिनं प्रवर्तयन्ति । आचारमूलकस्य सत्याहिंसादिरूपस्य धर्मस्य सर्वधर्मेषु समत्वम् अनिवार्यत्वं च व्यादिश्यते, तत्पालने न कस्यचिदपि विपश्चितो विप्रतिपत्तिः । एवं धर्मो मानवं देवत्वं गमयति, परमसुहृद्रूपेण चाभीष्टार्थावाप्तौ साहाय्यं वितरति । धर्मो धारयते प्रजाः-जगति धर्म एव पारस्परिक-विश्वास-संधानात् प्रजानां धारकः । धर्मस्य विश्वजनीनत्वं सार्वलौकिकत्वं सार्वभौमिकत्वं च विश्वहितसम्पादनादेव प्रवर्तते । धर्म एव शिक्षयति-'उदारचरितानां तु वसुधैव कुटुम्बकम्' । सत्यं दया परोपकारादयो धर्मस्यातएव मूलतत्त्वानि गण्यन्ते । अतएव परदुःखनिवारणं करुणाद्रवत्वं च धर्मे संगृह्यते। अतएव प्रोच्यते-'न च धर्मो दयापरः'। न धर्मवृद्धेषु वयः समीक्ष्यते-ज्येष्ठत्वं श्रेष्ठत्वं च धर्ममूलकम् । सत्कर्मा-. श्रयणेन ज्येष्ठत्वं, न तु वयसा। अतस्तपःपूताः सदा सर्वत्र च संमानमर्हन्ति । बालिशानां वयोमूलं ज्येष्ठत्वम्, सुधियां तु धर्ममूलकं ज्ञानमूलकं च ज्येष्ठत्वम् । 'धर्मस्य त्वरिता गतिः' इत्यनेन निर्दिश्यते यद् धर्मे देशकालानुरूपं परिवर्तनं संजायते । सत्यपि तत्र परिवर्तने न मौलिकं परिवर्तनम्, यथा बाल्ययौवनादिभेदेऽपि न नामभेदः शरीरभेदो वा । 'गृहीत इव केशेषु मृत्युना धर्ममाचरेत्' इत्यप्यत्राभिप्रेतम् । एवम् अवलोक्यते यद् जीवने धर्मस्य सर्वदा सर्वथा चानिवार्यत्वं वर्तते। तस्याश्रयणेनैव ऐहिकम् आमुष्मिकं च सुखमवाप्यते । धर्मो जीवनरक्षकः, सुखशान्तिसंधायकः, सत्कर्मप्रेरकः, दुःखनिरोधकश्चेति सततम् आश्रयणीयः। .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy