SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ यतो धर्मस्ततो जयः धर्मेण होनाः पशुभिः समाना:-धर्म एव जीवनस्य सारः। पशवस्तिर्यञ्चश्चापि आहारनिद्रादिकर्मसंपादनेन स्वजीवनस्य साफल्यम् अश्नुवते । परं न मानवजीवनम् आहारविहारादिसिद्धयर्थमेव, अपि तु विशिष्टोद्देश्यमूलकम् । किं तद् उद्देश्यमिति, कथं च तदवाप्तुं शक्यते, इत्येतत् सर्वमेव धर्मविषयान्तर्गतमेव । अतः साधूच्यते भर्तृहरिणा आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥ हितो० १-२५ यतो धर्मस्ततो जयः-लोके द्विविधा प्रवृत्तिर्मानवानाम्-धर्मनिष्ठा अधर्मनिष्ठा च । अधर्माश्रयिणो जीवने असत्यादिभाषणेन असद्वृत्त्या चाचिरेण समृद्धि विन्दन्ते । धर्माश्रयिणां च श्रीवृद्धिः प्रयत्नसापेक्षा चिरसाध्या च । परं निश्चप्रचमेतद् वक्तं सुकरं यद् अधर्माश्रयिणां श्रीवृद्धिविनाशाय दुःखोदो च, धर्मनिष्ठानां तु समृद्धयुत्कर्षः सुखोदकः सुखशान्तिसंधायकश्च । अतएव मनुना प्रतिपाद्यते यद् अधर्मोद्भवा श्रीवृद्धिः क्षणिका, समूलोन्मूलनकी च । अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ मनु० ४-१७४ धर्मो रक्षति रक्षितः-मनुना धर्मलक्षणं निर्दिश्यते यद् वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चविघं प्राहः साक्षाद धर्मस्य लक्षणम् ॥ मनु० २-१२ चतुर्विधधर्मे वेद-स्मृत्यनन्तरं सदाचारोऽपि धर्म उदीयते। सदाचारेणेव जीवने सर्वार्थसिद्धिरित्यत्र न काचन विप्रतिपत्तिर्विपश्चिताम् । अतएव मनुना व्याह्रियते आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ मनु० १-१०८ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग भवेत् ॥ मनु० १-१०९ सर्वस्य तपसो मूलमाचारं जगृहः परम् । मनु० १-११० धर्मलक्षणे 'स्वस्य च प्रियमात्मनः' इत्यनेन मधुरभाषणं परोपकरणम् अहिंसनं च समर्थ्यते । अतएव महाभारते प्रोच्यते श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ परार्थसाधनं परहितचिन्तनं च जीवने सुखम् अनुप्राणयति । हिंसा हिंसाम्, अहिंसा अहिंसां च प्रवर्तयति । एवं रक्षितो धर्मोऽपि धर्मबुद्धेरनर्थवारणपुरःसरं रक्षामातनुते । बद्धमूलो धर्मो धर्मिष्ठं पावयति त्रायते च । न धर्मात् परमं मित्रम्-जगति धर्म एव सर्वोत्कृष्ट मित्रम् । सम्पदि
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy