SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ५४. यतो धर्मस्ततो जयः ( १. धर्मो रक्षति रक्षितः, २. धर्मो धारयते प्रजाः, ३. धारणाद् धर्म इत्याहुः, ४. धर्मेण होनाः पशुभिः समानाः, ५. न धर्मात् परमं मित्रम्, ६. न च धर्मो दयापरः, ७. न धर्मवद्धेष वयः समीक्ष्यते, ८. धर्मस्य त्वरिता गतिः, ९. धर्मः स नो यत्र न सत्यमस्ति ।) ___को नाम धर्मः ?--जगन्मूलत्वेन संसृतिनियामकानि तत्वानि 'धर्मः' इति व्यपदिश्यन्ते । यत्र जगद्धारकत्वं तत्र धर्मत्वम् । के च ते गुणाः, ये इदं जगद् धारयन्ति ? एते गणा महर्षिणा पतञ्जलिना योगदर्शने यम-शब्देन व्याख्याताः । एषां प्रयोजनं च प्रतिपादयता पतञ्जलिना अभिधीयते यद् एते यमाः सार्वभौमा महाव्रतं सन्ति । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। योगदर्शन २-३० जातिदेशकाल-समयानवच्छिन्नाःसार्वभौमा महाव्रतम् । योग० २-३१ तत्र 'शौच-सन्तोष-तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (योग० २-३२ )। मनुना स्फुटमेतत् प्रतिपाद्यते यद् यमा एवानिवार्यत्वेन सेव्याः । एषाम् अनाश्रये पतनम् अवनतिश्च । यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन ॥ मनु० ४-२०४ मनुना धृति-क्षमादयो दश गुणा एव धर्मशब्दवाच्यत्वेन निर्दिष्टाः । धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ मनु० ६-९२ महाभारतकृता व्यासेन जगद्धारकतत्त्वानां 'धर्मः' इति समाख्या व्यधायि । धारणाद् धर्म इत्याहुधर्मो धारयते प्रजाः। यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः ॥ महाभारत वैशेषिकदर्शनकृता कणादेन प्रतिपाद्यते यद् येन लौकिकी पारलौकिकी च समुन्नतिः संजायते, स एव धर्म-शब्देन वाच्यः । एवं लोक-परलोकोभयसाधकानि तत्त्वानि धर्मशब्दवाच्यानि ।। ___यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। वैशेषिक० मीमांसादर्शनकृता जैमिनिमुनिना धर्मलक्षणं निर्दिश्यते यत्-'चोदनालक्षणोऽर्थो धर्मः' ( मीमांसा० १-१-२)। जैमिनेरभिमतं यद् यदेव तत्त्वं मानवानां स्फूर्तिजनकम्, अन्तश्चेतनाप्रबोधकम्, सत्कर्मणि प्रवर्तकं च तदेव धर्म-शब्दवाच्यम् । एवं सिध्यति यद् धर्मो मानव-लोकपरित्रायकः, समुन्नतिसाधकः, अवनतिनिरोधकः, ज्ञान-विज्ञान-शौर्यादिगुणसंपादकः, आस्तिक्यादिप्रवर्तकश्चेति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy