SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अहिंसा परमो धर्मः । न तेन अरियो होति येन पाणानि हिंसति । 'अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥ धम्मपद १९-१५ अहिंसायाः श्रेयोवहत्वम्--भगवता मनुनाऽहिंसाया उपयोगित्वं प्रतिपादयता निगद्यते यद् अहिंसयैव मानवैः सर्वमपि कार्य साध्यम् । मधुरया वाचा यथा कार्यसिद्धिः संभाव्यते, न तथा प्रकारान्तरेण । एवं स्वार्थ-परार्थ-साधनेन सममेव धर्मपरिपालनमपि सिध्यति । अहिंसयैव भूतानां कार्य श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ मनु० २-१५९ न केवलमेतदेव, अपि तु आपद्यपि कटुभाषणं परद्रोहवृत्तित्वं च निषिध्यते । न च तादृशी वाक् प्रयोक्तव्या यया जन उद्विजेत । नारन्तुवः स्यादातॊऽपि न परद्रोहकर्मधीः। ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ मनु० २-१६२ अतएव पतञ्जलिना योगदर्शने समर्थ्यते यत्-'अहिंसा-प्रतिष्ठायां तत्संनिधौ वैरत्यागः' (योग० २-३५) । यत्रैव अहिंसायाः प्रतिष्ठा तत्र न केवलं मानवेषु, अपि तु तियंग्योनिष्वपि अहिंसावृत्तित्वम् अवलोक्यते । अतएव पुरा महर्षीणाम् आश्रमेषु हिंस्रेषु सिंहादिष्वपि हिंसावृत्ति-परित्यागोऽलक्ष्यत । अहिंसया विश्वबन्धुत्वम्-अहिंसैव स गुणो येन विश्वबन्धुत्वं विश्वप्रेम विश्वहितसाधनं च संभाव्यते । अहिंसैव धर्ममार्गः । अहिसायाः परिपालनार्थमेव भगवान् बुद्धः, भगवान् महावीरः, महर्षिदयानन्दः, महात्मा गांधिश्च स्वजीवनं समर्पयामासुः । अहिंसा-प्रचारे एवैतेषां जीवन व्यतीयाय । अहिंसाशस्त्रेणैव महात्मा गांधिः पराधीनतापाशं संछिद्य भारतवर्ष स्वाधीनताम् अलभ्भयत् । अहिंसाश्रयेणैव महर्षिर्दयानन्दो विषप्रदं ब्राह्मणं जगन्नाथम् अमुञ्चत । ___ अहिंसाया महत्त्वम्-अहिंसाया गौरवम् अवलोक्यैव मनुना प्रतिपाद्यते यत् स्वसुखसाधनाय न प्राणिवधम् आचरेत् । हिंसको नेह न चामुत्र सुखम् अश्नुते । ... योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। स जीवंश्च मृतश्च व न क्वचित् सुखमेधते ॥ मनु० ५-४५ 'न हिंस्यात् सर्वभूतानि' एतद्वचनमपि पूर्वाभिप्रायात्मकम् । हिंसया मानवे क्रूरत्वं निर्दयत्वं निघृणत्वं सद्भावहीनत्वं च संजायते । अहिंसयैव सदयत्वं सौजन्य सद्भावसमवेतत्वं च संलक्ष्यते । अहिंसयैव स्वोन्नतिः परोन्नतिः राष्ट्रहितं विश्वहितं च संभाव्यते । अतएवोच्यते-अहिंसा परमो धर्मः। .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy