________________
५३. अहिंसा परमो धर्मः
हिंसा लोकेन विद्विष्टा, हिंसा धर्मक्षयावहा ।
अहिंसा परमा शक्तिः, अहिंसा परमं तपः ॥ ( कपिलस्य )
अहिंसायाः स्वरूपम् — हिंसनं हिंसेति । प्राणिनां शारीरं मानसं वा परिपीडनं हिंसेति । त्रिविधा हि हिंसा - मनसा वाचा कर्मणा च । न प्राणिवध एव हिंसा, अपितु मनसा परापकृतिचिन्तनं वाचा कटवाक्यप्रयोगोऽपि हिसेव परिगण्यते । सर्वविधहंसा परित्याग एवाहिंसेति ।
अहिंसाया धर्मसाधनत्वम् - विविध वाद-विवाद- विप्रतिपत्ति-बहुलेऽपि लोके अहिंसाया महत्त्वविषये सर्वेषां निगमागमानाम् ऐकमत्यम् । अतएव मुनिना मनुना चातुर्वण्यर्थम् अहिंसाया महत्त्वम् उपस्थाप्यते ।
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ मनु० १०-६३ महर्षिणा पतञ्जलिना योगदर्शने यमं व्याख्यायमानेन अहिंसायाः प्राधान्यं निरूप्यते यत्
अहिंसासत्यास्तेय- ब्रह्मचर्यापरिग्रहा यमाः । योग० २ - ३०
यमानां महत्त्वं वर्णयता पतञ्जलिना तेषां सार्वभौमहाव्रतत्वम् उद्घोषितम्- ' जातिदेशकाल समयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (योग० २ - ३१) । अहिंसैव विश्वस्मिन् जगति शान्तिसंधात्री, अभ्युदयसाधनी, गुणोत्कर्षकारिणी, सच्चारित्र्यमूला, धर्माभिवृद्धि हेतुः भवाब्धिसंतरणैकसेतुश्च ।
अहिंसाया उपयोगिता - अहिंसाया जीवनोपयोगित्वम् आश्रित्यैव प्राचीनैः ऋषिभिर्महर्षिभिः शास्त्रकारैश्च तस्योपादेयत्वम् उद्घोष्यते । न केवलं वेदादिषु, अपि तु जैन-बौद्धाद्यागमेष्वपि, अहिंसाया अनिवार्यत्वम् उपदिश्यते । यजुर्वेदे मित्रत्वेन सर्वप्राणिहितसाधनं स्नेहव्यापारश्चादिश्यते । तद्यथा
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा समीक्षामहे ॥ यजु० ३६-१८
प्रेमभावनयैव राष्ट्रहितं विश्वहितं च संपादयितुं शक्यते । अतएव गीतायामपि देवीसम्पदवर्णने भगवता कृष्णेन तत्र अहिंसागुणोऽपि प्राधान्येन समाविश्यते ।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ गीता १६ - २
दैवी-सम्पदि न केवलम् अहिंसाया एवोपादानम्, अपि तु तद्व्याख्यान - रूपेण 'दया भूतेषु' इत्यनेन प्राणिमात्रे सदयत्वं समर्थ्यते । भगवान् बुद्धोऽपि अहिंसाया आश्रयणेनैव आर्यत्वम् उद्घोषयति, न हि जातु हिंसाश्रयणेन ।