________________
७४. संस्कृतस्य रक्षार्थ प्रसारार्थ चोपायाः संस्कृतं संस्कृतिश्च–सुविदितमेतत् समेषामपि शेमुषीमतां यद् भारतीया संस्कृति धिगन्तुं पार्यते संस्कृतज्ञानमन्तरा। संस्कृतिमन्तरेण निर्जीवं जीवनं जीविनः । संस्कृतिहि स्वान्तस्य संस्की, सद्भावानां भावयित्री, गुणगणस्य ग्राहयित्री, धैर्यस्य धारयित्री, दमस्य दात्री, सदाचारस्य संचारयित्री, दुर्गणगणस्य दमयित्री, अविद्यान्धतमसस्यापनोदयित्री, आत्मावबोधस्यावगमयित्री, सुखस्य साधयित्री, शान्तेः सन्धात्री च काचिदनुत्तमा शक्तिः । सेयं संस्कृतिरजस्रं रक्षणीया पालनीया परिवर्धनीयेति भारतीयसंस्कृतेः समुद्धारायावबोधाय च संस्कृतज्ञानमनिवार्यम् ।
___ संस्कृतस्य महत्त्वम्-- समग्रमपि पुरातनं भारतीयं वाङमयं संस्कृतमाश्रित्यावतिष्ठते इति सुविदितम् । न केवलं भारतीयसंस्कृतिरक्षणार्थमेवावश्यकं संस्कृतमपितु संस्कृतमेतत् विविधसंस्कृतिप्रसारसाधनम्, भारतीयभाषाणामभिवृद्धिहेतुः, राष्ट्रभाषायाः समुन्नतेः साधकम्, आर्यभाषाया गौरवस्य प्राणभूतम्, विश्ववाङ्मयस्य पथिप्रदर्शकम्, जीवनदर्शनस्य दर्शकम्, आचारशास्त्रस्य शिक्षकम पुरुषार्थस्य प्रयोजकम, विविधविरुद्धसंस्कृतिसमाहारसाधकम् , प्रान्तीयानां प्रादेशिकानां च विकृतीनां विवादानां संघर्षाणां च प्रशमनम्, राष्ट्रियभावनायाः सद्वृत्ततायाश्चाभिवृद्धमलम्, वैदिकवाङ्मयालोकस्य प्रसारहेतुः, आध्यात्मिक्या भौतिक्याश्च समुन्नतेः साधनमिति सुतरामवधेयम् । संस्कृत्या वाङ्मयेन च विहीनस्य देशस्य जातेश्चाधःपतनमनिवार्यम् । द्वयोरेवैतयोः संरक्षणेन संवर्धनेन च समेधते श्रीः सर्वस्या अपि संसृतेः इत्येतदेवावधार्य संस्कृतस्य संरक्षणस्य प्रचारस्य प्रसारस्य च भूयस्यावश्यकताऽनुभूयते साम्प्रतम् ।
संस्कृतस्य प्रसारोपायाः-अस्य रक्षणप्रचारप्रसारोपायाश्च समासतोऽत्र विविच्यन्ते समुपस्थाप्यन्ते च
(१) संस्कृतकाठिन्यापनोदनम्-क्लिष्टा, दुरूहा, दुर्बोधा चेयं गीर्वाणगीरिति लोकानां विचारः प्रशमं नेयः । सरला, सुबोधा, प्रसादगुणोपेता चेयं प्रयोज्या व्यवहार्या च । सरला सुबोधैव च भाषा प्रचरति प्रसरति चेत्यवगन्तव्यम् । २) संस्कृतव्याकरणस्य सरलीकरणम्-संस्कृतस्य प्रसारे प्रचारे च संस्कृतव्याकरणस्य काठिन्यं महद् बाधकम् । व्याकरणं सरलं कार्यम् । सूत्राणां कण्ठस्थीकरणे न बलमाधेयम् । व्याकरणनियमा अनुवादद्वारा प्रयोग-शैल्या च शिक्षणोयाः । प्रयोगशैल्याऽवगता नियमास्तथा बद्धमूला भवन्ति, यथा नान्येनोपायेन । ( ३ ) नवशब्दानाम् आत्मसात्-करणम्-विविधासु भाषाषु प्रयुज्यमाना नवभावावबोधका नव्याः शब्दाः संस्कृतशब्दावल्यां संस्कृतस्वरूपप्रदानद्वारा आत्मसात् करणीयाः । संसृतौ व्यवह्रियमाणाः सर्वा एव प्रमुखा भाषाः शैलीमिमामाश्रयन्ते । प्रकारेणैतेन तासां भाषाणां प्रगतिरुद्गतिर्जागृतिश्च संसूच्यते । समादृताऽऽसीत् शैलीयं प्राक् संस्कृतेऽपि ।