________________
संस्कृतभाषाया महत्त्वम्
the linguistic phenomena as a scientific system and developed their grammar so highly that even today modern Philology can use their attainments as a foundation.
२४७
-Winternitz H.I.L. P. 8.
संस्कृतभाषाश्रयेण सर्वा अपि भारतीया भाषाः सारल्येनावगन्तुं पार्यन्ते । यतो हि तत्र प्रतिशतं षष्टि-प्रतिशतादारभ्य अशीतिप्रतिशतं यावत् संस्कृतशब्दाः प्रयुज्यन्ते । जर्मन-फ्रेञ्च -आङ्ग्लभाषादिष्वपि महती संख्या संस्कृतस्य तत्सम-तद्भव शब्दानाम् । एवं विज्ञायते यत् भाषाविज्ञान- दृष्ट्या संस्कृतभाषा बहुमूल्य निधिः ।
संस्कृतस्य सांस्कृतिकं महत्त्वम् - सांस्कृतिकदृष्ट्या संस्कृत भाषा अनर्घा प्रेष्ठा च । भारतस्य तु भाषैषा सांस्कृतिको निधिः । निखिलमपि सांस्कृतिकं वाङ्मयं संस्कृतमाश्रित्यैवावतिष्ठते । विश्वसंस्कृतिपरिज्ञानार्थमपि संस्कृतभाषा अपरिहार्या । तुलनात्मक संस्कृतिविचारे संस्कृतभाषेव साहाय्यमाचरति । संस्कृतभाषाश्रयैव संस्कृतिः सुदूरपूर्ववतिषु ब्रह्मदेश श्याम-यव- सुमात्रादि द्वीपेषु प्रचचार । अमेरिका-यूरोपदेशस्थ संस्कृतिष्वपि एतस्या अक्षय: प्रभावः परिलक्ष्यते । धर्मार्थकाममोक्षात्मकपुरुषार्थ चतुष्टयस्य साधनं संस्कृतवाङ्मयमेव । प्रागैतिहासिक-तत्त्वावबोधाय संस्कृतमेवैकं शरणम् । भारोपीयसंस्कृतेः प्राचीनतमरूपावगमाय संस्कृतं विहाय नान्या गतिः । संस्कृतवाङ्मयाश्रयेणैव पाश्चात्त्य-पौरस्त्यसंस्कृत्योः समन्वयः, सम्पर्कः, सङ्गतिश्चावगम्यते । भारतीयसंस्कृतेः विशुद्धरूपज्ञानाय संस्कृतवाङ्मयमेवैकं साधनम् । जैनबौद्धचार्वाकादिसंस्कृतयोऽपि संस्कृतभाषाश्रया एव ।
भारते भातु भारती - यदि भारतस्य सर्वाङ्गीणा समुन्नतिः काम्यते, सर्वसुखदो विकासश्चाभिलष्यते तर्हि संस्कृतस्य प्रचारः, प्रसारश्च नितराम - निवार्यम् । वैदिकसाहित्याद् उद्भूता सेयं संस्कृतभाषा - परम्परा अद्यावधि जीवति - तमाम् । मृतभाषाभाषिणो जनाः संस्कृतवाङ्मयज्ञानाभावात् स्वीयं मूढत्वमेव प्रदर्शयन्ति । हर्षावहोऽयं विषयो यदद्यत्वेऽपि संस्कृत-साहित्यं, काव्यानि, नाटकानि, गीतिकाव्यानि, गद्यसाहित्यम् विविधाः पत्र-पत्रिकाश्च प्रतिसंवत्सरं प्रकाश्यन्ते, सहस्रशो लक्षशश्च तेषामध्येतारो दरीदृश्यन्ते । भारतसर्वकारोऽपि विषयेऽस्मिन् जागरूकतां प्रदर्शयति । अक्षयोऽयं निधिः सर्वथा सर्वदा च अध्येयोअनुशीलनीयः, सम्मान्यो, विकासनीयश्च । एतदेव संप्रार्थ्य विरम्यते यत्-सुवर्णा सद्वृत्ता विविधललितालङ्कृतिचणा, गुणाढ्या निर्दोषा विबुधनिवहाराधितपदा । सुरीतिप्रख्याता भवविभवरूपाश्रितरसा, सदेयं शर्वाणी जयतु सुरवाणीह सततम् ॥
1