SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ . ११. भारतीयदर्शनानां महत्त्वं वैशिष्ट्यं च ___ दर्शन-शब्दार्थः--प्रेक्षणार्थकाद् दृश् धातोः ( दृशिर् प्रेक्षणे ) ल्युट्-प्रत्यये कृते दर्शन-शब्दो निष्पद्यते । किं नाम दर्शनम् ? दृश्यते अनेन इति दर्शनम् । येन साधनेन इद विश्वम्, इदं वस्तुजातम्, ब्रह्म, जीवात्मा, प्रकृतिश्च, याथातथ्येन दृश्यते निरीक्ष्यते परीक्ष्यते समीक्ष्यते विविच्यते च तद् दर्शनम् । अतः समग्रमपि आध्यात्मिकम् आधिभौतिकं च विवेचनं दर्शन-शब्दान्तर्गतं भवति । किं ब्रह्म ? तस्य किं स्वरूपम् ? क ईश्वरः ? के तस्य प्राप्तेरुपायाः ? अस्मिन् जगति किं शाश्वतं तत्त्वम् ? इयं सृष्टि: कुत आबभूव ? जीवात्मनः किं स्वरूपम् ? कः पुनर्जायते ? किं लिङ्गशरीरम् ? जीवस्य कुत उद्भूतिः ? कि तस्य लक्ष्यम् ? कथं मोक्षावाप्तिः ? आत्मा चेतनोऽचेतनो वा ? कः सृष्टेः कर्ता ? कि जीवनस्य कर्तव्यम् ? कश्च जीवनस्य साधिष्ठः पन्थाः ? इत्यादयोऽनुयोगा यत्र सुसूक्ष्मेण रूपेण विविच्यन्ते तद् दर्शनम् । सूक्ष्मेक्षिकया तत्त्वार्थदर्शनमेव दर्शनम् इत्यवगन्तव्यम् । यथोच्यते: केनेषितं पतति प्रेषितं मनः, केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति, चक्षुःश्रोत्रं क उ देवो युनक्ति । (केन उप० १-१) भारतीयदर्शनानां वर्गीकरणम्-भारतीयदर्शनानि स्थूलरूपेण द्विधा विभज्यन्ते-आस्तिकदर्शनानि, नास्तिकदर्शनानि च । यानि दर्शनानि वेदानां प्रामाण्यम् उरीकुर्वन्ति, तानि आस्तिकदर्शनानीति व्यवह्रियन्ते । यानि च वेदानां प्रामाण्यं नोररीकुर्वते तानि नास्तिकदर्शनानि । तत्र न्याय-वैशेषिकसांख्य-योग-मीमांसा-वेदान्ताख्यानि षड्दर्शनानि आस्तिकदर्शनानि अभिधीयन्ते । चार्वाक-जैन-बौद्धदर्शनानि च नास्तिकदर्शनानि निर्दिश्यन्ते । विभाजनं चैतद् वेदानां प्रामाण्याप्रामाण्यमलकमेवेति सम्यग अवधारणीयम् ।। भारतीयदर्शनानां महत्त्वम्-मोदावहम् एतद् यद् निखिलेऽपि भुवने पाश्चात्त्याः पौरस्त्याश्च विपश्चितो भारतीयदर्शनानां मुक्तकण्ठेन एकस्वरेण च महत्त्वं स्वीकुर्वते । सत्यपि मतभेदे, सत्यपि राष्ट्रीयपक्षपाते, सत्यपि स्वोत्कर्षविचारे च भारतीयदर्शनानां महत्त्व-विषये न कस्यापि विदुषो विप्रतिपत्तिः । विश्ववाङ्मये भारतीयदर्शनानि ज्ञान-प्रभा-भास्वरेण चिन्तनेन, स्व-पर-पक्षालोचन-निपुणेन वैदुष्येण, तत्त्वार्थग्रहणकप्रवणेन विवेकेन, अधृष्येण धीप्रकर्षण, संकीर्णतादोषानवलिप्तेन विवेचनेन, पूर्वग्रहरहितेनं विश्लेषणेन, मनोज्ञया विवेचनशैल्या, हृद्यया भावाभिव्यक्त्या, रुचिरया पदावल्या च तरणिवत् तेजःसमुच्चयेन चकासति । भारतीयदर्शनानां वैशिष्ट्यम्-भारतीयदर्शनानां चिन्तनपद्धतिरेव
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy