SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३६ संस्कृत निबन्धशतकम् अत्र वेदान्ताभिमत-मायावृत्तिसिद्धान्तस्य वर्णनम् । यस्येरिता सांख्यमयी दृढेह नौ-यया मुमुक्षुस्तरते दुरत्ययम् ॥ भाग० ९-८-१४ अत्र सांख्यशास्त्रस्य दृढनौकारूपेण प्रशंसनम् । प्रशान्तमायागुणकर्मलिङ्ग-मनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ भाग० ९-८-२५ अत्र वेदान्ताभिमतस्य त्रिगुणातीतस्य ब्रह्मणो वर्णनम् । एवं विवेचनेन भागवतस्य गुणगौरवं भावोत्कर्षत्वं च नितरां प्रतीयते । सत्यमिदं वचनम् — श्रीमद्भागवतं पुराणममलं यद् वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । तत्र ज्ञान - विराग-भक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy