________________
विद्यावतां भागवते परीक्षा
स एव जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्टः ॥
भाग० ११-१२-१७
अत्र उपनिषदि वणितस्य आत्मनो वर्णनम् । यथानलः खेऽनिलबन्धुरूष्मा बलेन दारुष्यभिमथ्यमानः । अणुः प्रजातो हविषा समिध्यते, तथैव मे व्यक्तिरियं हि वाणी ॥
३५
भाग० ११-१२-१८
अत्र ब्रह्मणः परादिरूपचतुविधाया वाण्याः प्रवर्तनं वह्निदृष्टान्तेन स्फुटीक्रियते ।
सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।
सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ भाग० ११-१३-१ अत्र गुणा बुद्धिधर्मा नात्मन इति सांख्याभिमतं वर्ण्यते ।
आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ भाग० ११-१३-४ अत्र दशतत्त्वानां गुणबुद्धिहेतुत्वं प्रदर्श्यते ।
वेणुसंघर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ भाग० ११-१३-७ अत्र 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ' ( गीता ४ : ३७ ) इति समर्थ्यते । स्मारयति चैतत् पद्यम् अश्वघोषकृतं पद्यद्वयम् - ' दीपो यथा निर्वृतिमभ्युपेतो — स्नेहक्षयात् केवलमेति शान्तिम्' । ' एवं कृतीनिर्वृत्तिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम्' ।। सौन्दर० १९ - २८, २९
usat गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः । अहं त्रिवृन्मोहविकल्प हेतु र्वैकारिकस्तामस ऐन्द्रियश्च ॥
भाग० ११-२२-३२
अत्र सांख्य- वेदान्तोभय-सिद्धान्तानां वर्णनम् ।
न यत्र वाचो न मनो व सत्त्वं तमो रजो वा महदादयोऽमी । न प्राण बुद्धीन्द्रियदेवता वा, न संनिवेशः खलु लोककल्पः ॥
भाग० १२-४-२०
न स्वप्नजाग्रन्न च तत् सुषुप्तं, न खं जलं भूरनिलोऽग्निरर्कः । संप्रवच्छ्रन्यवद प्रतक्यं, तन्मूलभूतं पदमामनन्ति ॥ भाग० १२-४-२१ अत्र श्लोकद्वये सांख्याभिमतम् अव्यक्ताया मूलप्रकृतेः वर्णनम् । आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः । सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ भाग० १०-४७-३१