________________
३४
संस्कृतनिबन्धशतकम्
कूटपद्यानि-दिङ्मात्रमिह केचन गूढार्थकाः क्लिष्टार्थकाश्च श्लोकाः प्रस्तूयन्ते । कूटपद्यानि यथा
द्वे अस्य बीजे शतमूल स्त्रिनालः, पञ्चस्कन्धः पञ्चरसप्रसूतिः। दशैकशाखो द्विसुपर्णनीड-स्त्रिवल्कलो द्विफलोऽकं प्रविष्टः॥
भाग० ११-१२-२२ अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः। हंसा य एकं बहुरूपमिज्य-र्मायामयं वेद स वेद वेदम् ॥
भाग० ११-१२-२३ क्लिष्टशब्दप्रयोगोऽपि बहुधा संदृश्यते । तद्यथा-(१) मारीचमाशु विशिखेन यथा कमुग्रः । भाग० ९-१०-१० । अत्र 'कमुग्रः' इत्यस्यार्थोऽस्ति कम्दक्षप्रजापतिम्, उग्र:-वीरभद्रः, यथा जघान, तथैव रामो बाणेन मारीचम् अहन् । (२) विश्रवसोऽवमेहम् भाग० ९-१०-१५, अत्र 'अवमेहम्' इत्यस्य कुपुत्रम् इत्यर्थः । ( ३ ) शाद्वलजेमनम्, अजोर्वभिष्टवम्, भाग० १०-१४-६० । अत्र शाद्वलजेमनम्-तृणाच्छन्नभूमौ भोजनम्, अजोर्वभिष्टवम्-ब्रह्मकृता महती स्तुतिः । (४) या दोहनेऽवहनने मथनोपलेप-प्रेझेलनाभरुदितोक्षणमार्जनादौ । भाग० १०-४४-१५ । अत्रत्या क्लिष्टा पदावलि: स्वयमेव क्लिष्टार्थतां व्यनक्ति ।
दार्शनिका भावाः-दार्शनिकभावोपेतानां श्लोकानां महती संख्या । यथा
तं क्लेशकर्मपरिपाकगुणप्रवाहै-रव्याहतानुभवमीश्वरमद्वितीयम् । प्राणादिभिः स्वविभवरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः॥
___ भाग० १०-८४-३३ अत्र क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः, इति योगसूत्रे (१-२४ ) वर्णितस्य ईश्वरस्य, वेदान्ताभिमत-ब्रह्मणश्च वर्णनम् । . बृहदुपलब्धमेतदवयन्त्यवशेषतया, यत उदयास्तमयौ विकृतेर्मुदि वाविकृतात् ।
___ भाग० १०-८७-१५ अत्र सतः सद् जायते, इति सांख्याभिमतस्य वर्णनम् । दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा, महदहमादयोऽण्डमसृजन् यदनुग्रहतः। परुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः,
सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ भाग० १०-८७-१७
अत्र सांख्याभिमत-प्रकृतिविकृतेः, अन्नमयादिकोशानां, सदसतः परस्य ब्रह्मणश्च वर्णनम् ।