SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ संस्कृतनिबन्धशतकम् पाश्चात्त्यदर्शनेभ्यो भिन्ना। पाश्चात्त्यदर्शनेषु दर्शननाम् उद्भवविषये विविधा वादाः प्रस्तूयन्ते, तद्यथा-आश्चर्यजन्यत्वम्, सन्देहमूलकत्वम्, मानव-व्यवहाराध्ययनमूलकत्वम्, ज्ञानानुरागमूलकत्वं वा। परं भारतीयदर्शनानां मूलम् आश्चर्यादिकं नास्ति । तस्य मूलं त्रिविधदुःखात्यन्तनिवृत्तिरस्ति । त्रिविधदुःखात्यन्तनिवृत्तिश्च अध्यात्मज्ञानेन आध्यात्मिकप्रवृत्त्या वा भवतीति भारतीयविज्ञानां संमतम् । दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतौ। दृष्टे साऽपार्था चेत् नैकान्तात्यन्ततोऽभावात् ॥ ( सांख्यकारिका १) सांख्यानुसारं च 'व्यक्ताव्यक्तज्ञविज्ञानाद्' दुःखात्यन्तनिवृत्तिः संजायते । (१) अध्यात्मभावना-प्राधान्यम्-भारतीयदर्शनेषु अध्यात्म-भावना अनुस्यूता ओता प्रोता च । आध्यात्मिकी भावनां परिहाय दर्शनानां स्थितिरेव न संभाव्यते । किम् आत्मतत्त्वम् ? कथं च तदवाप्तिः ? इति सर्वेषामेव दर्शनानां प्रमुखः चिन्तनविषयः । आत्मज्ञानम्, आत्मसाक्षात्कारः ब्रह्मणा तादात्म्यानुभूतिः, तन्मूलकं च सर्वज्ञत्वम्, इत्यादयो विषया दर्शनानां विवेच्यत्वेनोपतिष्ठन्ते। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः। आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितम् । (बृहदा०२-४-५) (२) धर्मानुबन्धित्वम्-पाश्चात्त्यदर्शनेषु धर्मदर्शनयोर्वैयधिकरण्यम्, न तु सामानाधिकरण्यम्, स्वीक्रियते । तत्र धर्मदर्शनयोः पन्थानौ विभिन्नौ, अनपेक्षित्वं चेतरेतरयोः । भारतीयदर्शनेषु तयोः सामानाधिकरण्यं परस्परापेक्षित्वं चाङ्गीक्रियते । यदेव दर्शनेन विविच्यते, तदेव धर्मेण व्यवह्रियते । एकत्र धर्मतत्त्वसमीक्षा, अपरत्र धर्मतत्त्वव्यवहतिः । दर्शने चिन्तनं मुख्यम्, धर्मे च कर्मनिर्धारणम् । एवं परस्परानुबद्धे धर्मदर्शने भोगापवर्गयोः सोपानरूपे स्तः । एतदेव कणादेन पतञ्जलिना चोद्घोष्यतेः यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । ( वैशेषिक० ) भोगापवर्गाथं दृश्यम् । ( योगदर्शन २-१८) (३) वेदानां प्रामाण्यम्-भारतीयदर्शनेषु षड् आस्तिकदर्शनानि वेदानां प्रामाण्यं स्वीकुर्वते । जैन-बौद्धदर्शनयोरपि वेदानां प्रामाण्यं रूपान्तरेण व्यवहारबुद्धया वा स्वीक्रियते एव । केवलं चार्वाकदर्शनं वेदानाम् अप्रामाण्यं प्रस्तौतितराम् । (४) दुःखत्रयविनाशनम्-भारतीयदर्शनेषु आध्यात्मिक-आधिदैविकआधिभौतिकेति त्रिविधदुःखानाम् आत्यन्तिकवारणाय दर्शनानां जनिरभूत् । एतदेव च दर्शनानां लक्ष्यम् । एतच्च पतञ्जलिना प्रकार-चतुष्टयेन स्फुटी
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy