________________
१२२
संस्कृतनिबन्धशतकम् करुणमेवैकं रसं मनुते । अन्ये रसा अस्यैव विवर्तरूपेण परिणामरूपेण वा परिणमन्ते इति करुण रसस्य महत्त्वम् आतिष्ठते । आह च
एको रसः करुण एव निमित्तभेदाद . भिन्नः पृथक् पृथगिव श्रयते विवर्तान् । आवर्तबुबुदतरङ्गमयान् विकारान्
___ अम्भो यथा सलिलमेव हि तत् समग्रम् ॥ उत्तर० ३-४७ कारुण्यं भवभूतिरेव तनुते-संस्कृतवाङ्मये करुणरसवर्णने भवभूतेस्तदेव स्थानं यत् शृङ्गाररसवर्णने कालिदासस्य । नाटककृद्रूपेण द्वयोरेव प्रतिस्पर्धित्वम् । भवभूतौ बहिर्दृष्टयैव साकं सूक्ष्माऽन्तर्दृष्टिरपि लक्ष्यते । मानवीयमनोभावानाम् अन्तःस्थितेश्च यादृक् सुसूक्ष्मं मनोवैज्ञानिक विश्लेषणं भवभूतिना प्रस्तूयते, तदन्यत्र सुदुर्लभम् । जगतो विनश्वरतां प्रेक्षं प्रेक्षं भवभूतेः कारुण्याप्लुता रसधारा प्रसरति । स रामकथाम् , प्राधान्येन सीता-परित्यागम, आश्रित्य स्वीयां भावनां मूर्तरूपेणोपस्थापयति । तस्य वाचि तादृग् वीर्य यथा न केवलं वृक्षवनस्पत्यादयः, अपि तु पर्वत-रोदन-क्षमताऽपि तस्य वाचि दरीदृश्यते । नीरसोऽपि जन उत्तररामचरितम् अधीत्य नूनं बाष्पाकुलेक्षणो भवितेति निश्चप्रचम् ।
भवभूतौ भावानां कोमलता, हृदयस्पर्शिता, तादात्म्यानुभूतिः, संवेदनशीलत्वं च वरीवर्ति, अतएव 'कारुण्यं भवभूतिरेव तनुते' इति तस्य यशो जेगीयते । दिङ्मात्रमिह केचन मार्मिका भावोद्बोधकाः प्रसङ्गाः प्रस्तूयन्ते ।
छद्मप्रयोगेण रावणः सीताम् अहरत् । तद्वियोग-विषण्णस्य दाशरथेः स्थितिम् अवधार्य ग्रावाणोऽपि सहजा धीरतां मुञ्चन्ति, वज्रस्यापि मानसं मार्दवं संश्रयतेअथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृत्तं पापैर्व्यथय त यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥
. उत्तर० १-२८ सीता-परित्याग-सन्तप्तस्य रामस्य तादृश्येवावस्थाऽवर्तत यथा पुटपाके कस्यचिद् धातोः -
अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः ।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ उत्तर० ३-१
लोकापवादेन जानकी परित्यज्य रामः कथमपि न धृति विन्दते । स पौरान् उपालम्भयन्नाहन-किल भवतां देव्याः स्थानं गृहेऽभिमतं तत
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।