________________
कारुण्यं भवभूतिरेव तनुते
१२३
चिरपरिचितास्ते भावास्तथा द्रवयन्ति मा
मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ उत्तर० ३-३२ ।। न केवलमेतदेव । रामपरित्यक्ता सीता क्वचिद् अरण्ये श्वापदैर्भक्षितेति अनुमीयते रामेण । कष्टापन्नायाः सीताया वर्णनं कथमिव मनो द्रावयति
अस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगभरालसायाः। ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याभिरङ्गलतिका नियतं विलुप्ता ॥ उत्तर० ३-२८
परित्यक्तायाः शोकसन्तप्तायाः सीतायाः शरीरलावण्यं विलीनम् । सा करुणस्य मूर्तिरिव, शरीरधारिणी विरहव्यथेव, हीना दीना क्षीणा चालक्ष्यते
करुणस्य मूतिरथवा शरीरिणी, विरहव्यथेव वनमेति जानकी ॥ उत्तर० ३-४
शोकसन्तप्तचेता मर्मव्यथाहतचेतनो रामो जीवनं निष्फलं कष्टप्रायं दु:खदावाग्निदग्धं च गणयति । प्राणा वज्रकीलवत् तस्य हृदयं रुन्धन्ति
दुःखसंवेदनायव रामे चैतन्यमाहितम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ उत्तर० १-४७
शोको विलापोऽश्रुपातश्च जीवनरक्षासाधनानि, यथा जलाप्लाविततटाकस्य सलिलनिःसारणेनैव सुरक्षा।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया। शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ उत्तर० ३-२९
सीताहरणचित्रदर्शनेन विषण्णस्य विलपतश्च दाशरथेरवस्थां वर्णयति कविः, बाष्पप्रसरं च मुक्ताहारेणोपमिमीते
अयं तावद् बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन धाराभिलुंठति धरणी जर्जरकणः। निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ उत्तर० १-२९
शम्बूकप्रसङ्गेन दण्डकारण्यं पञ्चवटीं च प्राप्य जानकीसहवासं स्मारं स्मारं खिद्यतेतमा मनो मानिनो रामस्य । रामोऽभिधत्ते--
चिराद वेगारम्भी प्रसृत इव तीवो. विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः। व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः
पुराभूतः शोको विकलयति मां नूतन इव ॥ उत्तर० २-२६
पञ्चवटीदर्शनेन रामस्य दुःखाग्निरुद्दामं प्रज्वलति, मोहश्च तं सर्वथाऽऽवृणोति