SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ उत्तर० ३-९ रामस्य सन्तापजां स्थिति कथमिव कविः सजीवरूपेण चित्रयति । तस्य हृदयं शोकाद् विदीर्यते, परं न द्विधा छिद्यते; मोहागमेऽपि चैतन्यं नोज्झति; शोको देहं दहति, न च भस्सात् कुरुते; विधिर्मर्मच्छेदनं विधत्ते, जीवितं न तु समापयति १२४ दलति हृदयं शोकोद्वेगाद् द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ उत्तर० ३-३१ रामो जानकीं संबोधयन् स्वीयाम् असह्य वेदनां विशदयति । समग्रं जगद् अन्धतामिस्रं प्रतीयते, मोहश्च निश्चैतन्यं प्रथयति । किं वा शरणम्, का वा गतिः ? हा हा देवि ! स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि । सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ उत्तर० ३-३८ उत्तरे रामचरिते भवभूतिविशिष्यते - महाकविरूपेण कालिदासोऽतिशेते कवीनन्यान्, परं नाटककृद्रूपेण भवभूतिस्तस्य प्रतिस्पर्धी । उत्तररामचरिते तु सकरुणरसप्रवाहे कालिदासादपि अतिरिच्यते । अतएव 'उत्तरे रामचरिते ०' इति सूक्तिमुक्ता प्रसरीसति । उत्तररामचरिते भवभूतेर्नाट्यकलायाः कवित्वस्य च चरमोत्कर्षो लक्ष्यते । द्वयोरेव कविवरयोः किंचिद् साम्यं वैषम्यं चावलोक्यते । साम्यदृशा परीक्षिते सति-द्वावेव सफलौ महाकवी नाटककारौ च; द्वयोरेव भाषा वश-वर्तिनी; स्वाभीष्टरसवर्णने द्वयोः प्रागल्भ्यम्; द्वयोरेव मौलिकत्वं प्रतिभावशिष्टत्वं च; सहृदयहृदयहारिणी विदग्धता | 1 वैषम्यदृशा परीक्षिते सति -- ( १ ) कालिदासकृतिषु प्रसादो माधुर्यं च, समासाभावो दुरूहपदावलीपरित्यागश्च परं भवभूति - कृतिषु ओजोगुणस्य भूयस्त्वं दुरूहपदप्रयोगः समस्ता क्लिष्टा च पदावली प्रतिपदं परिलक्ष्यते । ( २ ) कालिदासः शृङ्गाररसवर्णने चरमोत्कर्षं धत्ते परं भवभूतिः करुण रसप्रवाहे । (३) कालिदासो व्यञ्जनावृत्तिप्रधानः, भवभूतिस्तु अभिधावृत्तिप्रधानः । ( ४ ) कालिदासकृतिषु कल्पनारम्यत्वम्, भवभूतिकृतिषु भावगाम्भीर्यम्; कालिदासे सरसत्वं सरलत्वं च भवभूती ओजस्त्वं प्रौढिश्च; - कालिदासे नैसर्गिकत्वं भवभूती आदर्शरूपत्वं च प्रथते । ( ५ ) कालिदासः
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy