________________
३४. कारुण्यं भवभूतिरेव तनुते
( उत्तरे रामचरिते भवभूतिविशिष्यते ) भवभूतेः कवीन्द्रस्य वाणी कामदुधा मता। ब्रह्मानन्दसहोदयां या तनोति मुदं सदा ॥ ( कपिलस्य )
भवभूते|वनवृत्तं नाट्य-कृतित्वं च-श्रीभवभूतिः कान्यकुब्जेश्वरस्य श्रीमतो यशोवर्मण आश्रितो महाकविरित्यत्र सर्वेषां सुधियाम् ऐकमत्यम् । महाकविना बाणेन हर्षचरिते महाकविगणनाप्रसङ्गेनास्याभिधानम् अभ्यधायीतिमहाकवेर्बाणात् पूर्वं जनिकालमस्य नेति निर्णीयते । एवं भवभूतेर्जनिकाल:७०० ईसवीयस्य संनिधौ स्वीक्रियते । विदर्भ ( बरार )-प्रदेशस्थ-पद्मपुर-नगर-वास्तव्योऽयं श्रीकण्ठपदलाञ्छनो भवभूति-नामाऽभवत् । पितामहोऽस्य भट्टगोपालो, जनको नीलकण्ठो, जननी जातुकर्णी, गुरुश्च ज्ञाननिधिर्नाम । नाटक त्रयमस्य समुपलभ्यते-मालतीमाधवम्, महावीरचरितम्, उत्तररामचरितं च । व्याकरण-न्यायमीमांसा-शास्त्रेषु निष्णातत्वादेव 'पद-वाक्य-प्रमाणज्ञः' इत्युपाधि-समलंकृतोऽभूत् । वेदेष्वन्येषु च शास्त्रेष्वस्य अव्याहता गतिः । वाग्देवी तं वश्येव समन्ववर्ततेति तथ्यं स्वयमेवोद्घोष्यते तेन । 'यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते' ( उत्तर० १-२) ___भवभूतेः करुणो रसः-करुणरसनिष्यन्दे नातिशेतेऽन्यो महाकविर्महाकविममुम् । करुणरसोद्रेकम् आलोक्यैव कवेरेतस्य कृतिषु कृतिभिः कृतानि कतिपयानि प्रशंसापद्यानि । आर्यासप्तशत्यां श्रीगोवर्धनाचार्यों भवभूतेर्भारती भूधरसुतया गौर्योपमिमीते। एतत्कृतकारुण्ये ग्रावाणोऽपि रुदन्ति, अन्येषां तु का कथा
भवभूतेः संबन्धाद् भूधरभूरेव भारती भाति ।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ आर्या० १-३६
कारुण्ये स कालिदासादप्यतिरिच्यते । अत उच्यते-'उत्तरे रामचरिते भवभूतिविशिष्यते'।
एको रसः करुण एव-करुणरसप्रवाहपरीक्षया परीक्ष्यते चेन्नाटकत्रयमस्य तहि उत्तररामचरितमेव सर्वातिशायि । यथाऽत्र करुणरस-निष्यन्दो, न तथाऽन्यत्र । किं कारुण्यम् ? करुणरसस्य प्रवाह एव कारुण्यमिति । इदमत्रावधेयम् । भवभूतिः करुणरसं रसत्वेनैव नातिष्ठतेऽपि तु समेषां रसानां मूलभूतत्वेन
१. विशदविवेचनार्थ द्रष्टव्यम् -प्रौढरचना० निबन्धसंख्या ११, लेखककृत-सं० सा० ___ समोक्षात्मक इतिहास, पृष्ठ-४१२-४१५, ४२५ ४२८