________________
१२०
संस्कृतनिबन्धशतकम् 'नास्ति जन्यजनकव्यतिभेदः० ( नै० ५-९४ ) इत्यत्र सांख्याभिमतः सत्कार्यवादो विवियते । 'संप्रज्ञातवासिततमः समपादि' ( नै० २१-११८ ) इत्यत्र योगदर्शनप्रतिपादितः संप्रज्ञातसमाधिनिरूयते । 'आदाविव द्वयणुककृत् परमाणुयुग्मम्' ( नै० ३ -१२५ ) इत्यत्र वैशेषिकाभिमतः परमाणुवादः, 'मनोभिरासीदनणुप्रमाणे ' ( नै० ३-३७), 'जनस्य चेतोभिरिवाणिमाङ्कितैः० ( नै० १-५९ ) इत्यत्र मनसोऽणुत्वं प्रतिपाद्यते ।
विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये।
विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदनि स निनाय ॥ नै० ५-३९
इत्यत्र मीमांसाभिमतं देवानाम् अरूपित्वं मन्त्ररूपित्वं च निर्दिश्यते । 'स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता' ( नै० २-६१ ) इत्यत्र स्वतःप्रामाण्यं वर्ण्यते । 'न्यवेशि रत्नत्रितये' (नै० ९-७१ ) इत्यत्र जैनाभिमतरत्नत्रयस्य वर्णनम् । सप्तदशे सर्गे चार्वाकसिद्धान्तवर्णनम् उपलभ्यते । 'अजस्रसभ्याशमुपेयुषा समं मुदैव देवः कविना बुधेन च' (नै० १-१७ ) इत्यत्र ज्योतिषसिद्धान्तवर्णनं प्राप्यते । ।
उदिते नैषधे काव्ये०–माघस्य शिशुपालवधे काव्यसौन्दर्य प्रेक्ष्य यथा भारवेर्भा अस्तमेति, तथैव नैषधे श्रीहर्षस्य वैदुष्यं विलोक्य भारविमाघौ द्वावेव निष्प्रभतां धत्तः । श्रीहर्षः कविताकामिनीकान्तो भाषाप्रयोगविदग्धो विविधशास्त्रनिष्णातो रससिद्धः कवीश्वरो वर्तते । तस्य काव्यं प्रतिपदं तस्य व्याकरणविशेषज्ञतां भावगाम्भीर्य पदमाधुर्यं भाषासौष्ठवं रसपरिपाकं च प्रकटयति । अनुपमस्तस्य समग्रेऽपि संस्कृतवाङ्मयेऽधिकारः । गीर्वाणवाणी वाणीश्वरमिव तं सेवते । स भाषां पुत्तलिकामिव नर्तयितुं प्रभवति । तदीहासमकालमेव समुपतिष्ठन्ति रसाः, भावाः, कमनीया पदावली, विविधाश्चालंकाराः । गूढातिगूढभावान्वितानि क्लिष्टानि पद्यानि स यथैव सारल्येन रचयितुमलं तथैव सरलानि सरसानि प्रसादगुणोपेतानि हृद्यानि पद्यानि । तस्य पद्यानि नारिकेलफलोपमानानि सन्ति, बहिः कठोराणि, अन्तः माधुर्योपेतानि च । रसिकैः सहृदयविविधशास्त्रनिष्णातैरेव तत्काव्यगौरवम् अवधारयितुं पार्यते। यथा केचन श्लेषप्रयोगा:
'चेतो नलं कामयते मदीयम्' ( नै० ३-६७ ), श्लेषमूलकमर्थत्रयमस्य । चेतः नलं कामयते, चेतः न लंकाम् अयते, चेतः अनलं कामयते । 'स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः' ( नै० ४-११६ ) इत्यत्र नलद-शब्दो द्वयर्थकः । पञ्चार्थकं पद्यं यथा
देवः पतिविदुषि नैष धराजगत्या
निर्णीयते न किमु न वियते भवत्या। नायं नलः खलु तवातिमहानलाभो
यद्येनमुज्झसि वरः कतरः परस्ते ॥ नै० १३-३४ .