________________
नैषधं विद्वदौषधम् व्युत्पत्तिवारिधि प्रथयति । स श्लिष्टप्रयोगादतिरिक्तं व्याकरण-न्याय-वैशेषिकसांख्य-योग-वेदान्त-मीमांसा-चार्वाक-बौद्ध-जैनादिदर्शनानां दुरूहान् सिद्धान्तान् यत्र-तत्र वर्णयति । विशिष्ट-दर्शनज्ञानमन्तरेण तदर्थावगमो दुष्कर एव । न केवलं पाश्चात्त्यविदुषामेव कृते, अपि तु भारतीयविद्वत्तल्लजानामपि कृते नैषधं दुर्बोधमेव । पाण्डित्यप्रदर्शनस्य दुष्परिणामरूपत्वेन श्रीहर्षस्य कलापक्षः श्रियमश्नुते, भावपक्षश्च दौर्बल्यम् ।
पाणिनेः 'अपवर्गे तृतीया' (अष्टा० २.३-६) सूत्रे व्यङ्ग्यं कुरुते यद् अपवर्गविषये मोक्षविषये वा तृतीया प्रकृतिः स्त्रीपुंसातिरिक्ता क्लीबप्रकृतिरेवोपयुक्ता
उभयो प्रकृतिः कामे सज्जेदिति मनेर्मनः।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ नै० १७-७० 'तदत्यन्तविमोक्षोऽपवर्ग:' 'सकलविशेषगुणोच्छेदो मुक्तिः' इति निरानन्दं मोक्षमाश्रित्य व्यङ्ग्यं कुरुते यद् न्यायाभिमतो मोक्षो गोतमस्यैव मूर्खतमस्यैव मतं भवितुमर्हति
मुक्तये यः शिलात्वाय, शास्त्रमचे सचेतसाम् ।
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥ ने० १७-७५
वैशेषिकदर्शने 'किमिदं तमो भावरूपम् अभावरूपं वा ?' इति विचारे 'भासामभाव एव तमः', 'भाभाव एव तमः' इत्यादिरूपेण तमो विविच्यते । वैशेषिकदर्शनकृत् कणाद एव उलकापरपर्यायः । अतो दर्शनमेतद् औलूकदर्शनं निगद्यते । एतदाश्रित्यैव व्यङ्ग्यं क्रियते यद् उलूक एव तमस्तत्त्वपरीक्षणे क्षमः, तन्मतं च ग्राह्यम्
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे।
औलूकमाहुः खलु दर्शनं तत् क्षमंतमस्तत्त्वनिरूपणाय ॥ नै० २२-३५
वेदान्तदर्शनानुसारं मुक्तौ जीवात्मनो ब्रह्मणि विलयेन ब्रह्मैव केवलमवशिष्यते, लोके तु जीवब्रह्मणोर्द्वयोरेव पृथगस्तित्वम् । एतन्मतमाश्रित्यैव व्यङ्ग्यं प्रयुज्यते यन्मूर्ख एव स्वास्तित्वविनाशाय प्रवतिष्यते
स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्ति-मुक्त्युक्ति-वैदग्धी ब्रह्मवादिनाम् ॥ नै० १७-७४ श्रीहर्षोऽन्यदर्शनसिद्धान्तान् अपास्य अद्वैतवादमेव सर्वमान्यत्वेनाश्रयते
श्रद्धां दधे निषधराड्विमतौ मतानाम् अद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥ नै० १३-३६
सरस्वत्याः स्वरूपवर्णने एकस्मिन्नेव श्लोके बौद्धदर्शनस्य शाखात्रयसिद्धान्ताः शून्यवाद-विज्ञानवाद-साकारविज्ञानवादाः समुपस्थाप्यन्ते । यथा
या सोमसिद्धान्तमयाननेव, शून्यात्मतावादमयोदरेव । विज्ञानसामस्त्यमयान्तरेव, साकारतासिद्धिमयाखिलेव ॥ नै० १०-८८ एवमेव विविधा दर्शनराद्धान्ता इतस्ततः प्रकीर्णा उपलभ्यन्ते । यथा