________________
११८
संस्कृतनिबन्धशतकम् प्रतीयते प्रबन्धोऽस्य । नैकशास्त्रनिष्णातस्यानुपहता गतिरत्रेति 'नैषधं विद्वदौषधम्' इति साह्लादमुद्घोष्यते यशोऽस्य सुधीभिः । प्रतिपदं पदलालित्यावेक्षणात् 'नैषधे पदलालित्यम्' इत्यभिधीयते ।
नैषधे पदलालित्यम्-नैषधे पदलालित्यं प्रतिपदं प्रेक्ष्यते । क्वचित् प्रसादः,क्वचिन्माधुर्यम्, क्वचिच्च ओजोगुणो लक्ष्यते । प्रसाद-माधुर्यगुणाभ्यां सह पदलालित्यं विचित्रामाभां प्रदर्शयति । काव्यस्य लयात्मकत्वं संगीतात्मकत्वं च श्रुतिसुखदत्वेन सममेव सहृदयहृदयावर्जकत्वेनोपतिष्ठते । नैषधे पदलालित्यप्राधान्यमवलोक्य विपश्चिद्भिः 'नैषधे पदलालित्यम्' इति साह्लादम् उद्घोष्यते। कतिपयानि निदर्शनान्यत्र प्रस्तूयन्तेअधारि पद्धेषु तदघ्रिणा घृणा
क्व तच्छयच्छायलवोऽपि पल्लवे । तदास्यदास्येऽपि गतोऽधिकारिता
न शारदः पाविकशर्वरीश्वरः ॥ नैषध० १-२० अहो अहोभिर्महिमा हिमागमेऽ
प्यभिप्रपेदे प्रति तां स्मरादिताम् । तपर्तुपूर्तावपि मेदसां भरा
विभावरीभिबिभरांबभूविरे ॥नैषध० १-४१ सकलया कलया किल दंष्ट्रया
समवधाय यमाय विनिर्मितः॥ नैषध० ४-७२ नलिनं मलिनं विवृण्वती, पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुविधम् ॥ नै० २-२३
श्लोकेष्वेषु क्वचिदनुप्रासः क्वचिद् यमकं सौन्दर्याधायकम् । क्वचित् सौकुमार्यमेव पदानां श्रुतिसुखदत्वहेतुः । यथा
धन्यासि वैदर्भि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ नै० ३-११६
सपीतेः संप्रीतेरजनि रजनीशः परिषदा। परीतस्ताराणां दिनमणिमणिग्रावमणिकः ॥ नैषध० २२-१४४ यथा यूनस्तद्वत् परमरमणीयाऽपि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपरुषानादरभरैः॥ नै० २२-१५० नैषधं विद्वदौषधम् –विविधविद्यापारदृश्वा श्रीहर्षः । नैषधे स्वव्युत्पत्तिप्रदर्शनोपक्रमे स प्रतिपदं क्लिष्टत्वं दुरूहत्वं चोपपादयति । विविधशास्त्रीयसिद्धान्तवर्णनात्, श्लिष्ट-क्लिष्ट-पद-प्रयोगात्, बहुज्ञता-प्रदर्शनाच्च स्वकाव्ये