________________
३३. नैषधं विद्वदौषधम् ( १. उदिते नैषधे काव्ये, क्व माघः क्व च भारविः, २. नैषधे पदलालित्यम् )
श्रीहर्षस्य जीवनवृत्तं काव्य-कृतित्वं च-महाकवेरेतस्य जनकः श्रीहीरो जननी मामल्लदेवी च । तथा हि-'श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं, श्रीहीरः सुषवे जितेन्द्रियचयं मामल्लदेवी च यम् ।' (नैषध०१-१४५ ) । कान्यकुब्जेश्वरस्य जयचन्द्रस्याश्रयमाशिश्रियत् कविरयम्, तदादृतिमविन्दत च । 'ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात्' ( नैषध० २२-१५३ ) । अतोऽस्य जनिकालो द्वादशशताब्द्या उत्तरार्धोऽङ्गीक्रियते । श्रीहर्षो महाकविमहायोगी च। उभयत्रापि चरमोत्कर्षं लेभे । 'यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् । यत्काव्यं मधुवर्षि' ( नै० २२-१५३ ) । सर्गान्तश्लोकेषु ग्रन्थाष्टकस्यान्यस्य नामग्राहं गृह्यते तेन । तत्र चाद्वैतवेदान्तप्रतिपादकः खण्डनखण्डखाद्यमेवैको ग्रन्थः साम्प्रतमुपलभ्यतेऽन्ये च लुप्तप्राया एव । सायासमेतत् तस्य महाकाव्यं, ग्रन्थयश्चात्र विन्यस्तास्तेन महता श्रमेण । अतः श्रमसाध्य एव महाकाव्यस्यैतस्यार्थावगमोऽपि--
ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासि प्रयत्नान्मया, प्राज्ञंमन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु । श्रद्धाराद्धगुरुश्लश्रीकृतदृढग्रन्थिः समासादयत्वेतत्काव्यरसोमिमज्जनसुखव्यासज्जनं सज्जनः ॥ (नै० २२-१५२)
रमणीलावण्यं हरति चेतः सचेतसो यून एव, न तु किशोराणाम् । तथैव श्रीहर्षकृतिः सुधीभिरेवास्वादनीया, न तु प्राशंमन्यैः --
यथा यूनस्तद्वत् परमरमणीयापि रमणी, कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः, किमस्या नाम स्यादरसपुरुषानादरभरैः॥ ( नै० २२-१५०)
बृहत्त्रयो–श्रीश्रीहर्षमहाकवेः कृतिर्नैषधचरितं कस्य न कृतिनो मानसमावर्जयति । बृहत्त्रय्यामन्यतमैषा कृतिः। भारवेः किरातार्जुनीयं, माघस्य शिशुपालवधं, श्रीहर्षस्य नैषधचरितं चेति त्रयमेतद् बृहत्त्रय्यां गण्यते । उत्तरोत्तरमेषामुत्कर्षश्चोररोक्रियते । एतद्भावात्मकमेवैतदुद्गीर्यते--'तावद् भा भारवेर्भाति, यावन्माघस्य नोदयः। उदिते नैषधे काव्ये क्व माघः क्व च भारविः ॥'
___ श्रीहर्षस्य पाण्डित्यम्-श्रीहर्षो महाकविर्महादार्शनिको महावैयाकरणश्चेत्यादिविविधविरुद्धगुणगणसमन्वयादतिशेते सर्वानन्यान् महाकवीन् पाण्डित्यप्रदर्शने वाग्वैभवे रुचिररचनायां भावाभिव्यक्ती साधशब्दसंकलने विद्यावैशारद्ये वक्रोक्तिव्यवहारे च। अनुपमवैदुष्यवैभवाविर्भावात् पाण्डित्यपुटपरिपाकप्रतीकाशः