________________
ज्वलितं न हिरण्यरेतसं खयमास्कन्दति भस्मनां जनः
२६९
तत्र मानिता । मानपरिक्षये च सर्वे गुणा अपि तत्र क्षयमेवाश्रयन्ते । निर्वाणे तु दीपके ज्योतिरपि तदाश्रयमुज्झति । तदाह—
तेजोविहीनं विजहाति दर्पः शान्ताचिषं दीपमिव प्रकाशः ।
किराता० १७ - १६
निस्तेजाः सर्वत्रैवावगण्यते परिभूयते धिक्क्रियते धृष्यते च । तस्य निस्तेजस्त्वम् अजस्रम् अवमानम् आवहति । अतो निगदितं भासेन - 'मृदुः परिभूयते ' ( प्रतिमा० १ - १८ ) उक्तं च मृच्छकटिके शूद्रकेण - ' निस्तेजाः परिभूयते' ( १ - १४ ) । तेजसा सममेव समेधते स्वावलम्बनस्य साधीयसी साधना । तेजस्विनो न पराश्रयमपेक्षन्ते, न च परसाहाय्यमेव समीहन्ते । ते स्वतेजसा जगद् व्याप्नुवन्ति । तदुच्यते
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ।
किराता० २ - १८ तेजस्विता प्रतापाय - महाकविना माघेनापि तेजस्विताया मानितायाश्च महत्त्वं बहुधा वर्णितम् । मानिनोऽवमन्तॄन् समूलमुन्मूल्यैव शान्ति श्रयन्ते, यथा सप्तसप्तिः समस्तं नैशं तिमिरमपाकृत्यैवोदेति—
समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ शिशु० २ - ३३
परावमानं यः सहते, न स पुंशब्दभाक् । तादृशस्य नराधमस्याजनिरेव श्रेयसी । स केवलं मातृक्लेशकारी । पादाहतं रजोऽप्युत्थाय मूर्धानमारोहति । योऽपमानेऽपि गतव्यथः, स रजसोऽपि हीनः । तिग्मता प्रतापाय, म्रदिमा परिभवाय चेति स्फुटं समीक्ष्यते । राहुर्द्रुतं ग्रसते चन्द्रं, भानुं च चिरेण । मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । शि० २-४५ पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमानेऽपि देहिनस्तद् वरं रजः ॥ शि० २-४६ तुल्येऽपराधे तन्त्रदिम्नः स्फुटं फलम् । शि० २-४९
तेजस्विता गौरवाय - महाकविना कालिदासेनापि तेजस्विताया महिमो-ररीक्रियतेऽभिधीयते च । ऋषयः शान्तिसमन्विता अपि तेजोमयाः । सति चाभिभवे सूर्यकान्तमणिवद् उद्गिरन्ति तेजः । न ते सहन्तेऽभिभवं जातु । सत्यभिभवे प्रज्वलति जातवेदाः, सति च परिभवे तेजस्विनोऽपि स्वमुग्र-रूपं धारयन्ति ।
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । शाकु० २-७ज्वलति चलितेन्धनोऽग्निविप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः । शा० ६-३१